युधिष्ठिर उवाच 001
शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके 001a
कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह 001c
आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः 002a
केन वा लभते कीर्तिं केन वा लभते श्रियम् 002c
तपसा ब्रह्मचर्येण जपैर्होमैस्तथौषधैः 003a
जन्मना यदि वाचारात्तन्मे ब्रूहि पितामह 003c
भीष्म उवाच 004
अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि 004a
अल्पायुर्येन भवति दीर्घायुर्वापि मानवः 004c
येन वा लभते कीर्तिं येन वा लभते श्रियम् 005a
यथा च वर्तन्पुरुषः श्रेयसा सम्प्रयुज्यते 005c
आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् 006a
आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च 006c
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् 007a
त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च 007c
तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः 008a
अपि पापशरीरस्य आचारो हन्त्यलक्षणम् 008c
आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः 009a
साधूनां च यथा वृत्तमेतदाचारलक्षणम् 009c
अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् 010a
भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् 010c
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः 011a
अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः 011c
विशीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः 012a
अल्पायुषो भवन्तीह नरा निरयगामिनः 012c
सर्वलक्षणहीनोऽपि समुदाचारवान्नरः 013a
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति 013c
अक्रोधनः सत्यवादी भूतानामविहिंसकः 014a
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति 014c
लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः 015a
नित्योच्छिष्टः सङ्कुसुको नेहायुर्विन्दते महत् 015c
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् 016a
उत्थायाचम्य तिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः 016c
एवमेवापरां सन्ध्यां समुपासीत वाग्यतः 017a
नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन 017c
ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् 018a
तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः 018c
ये च पूर्वामुपासन्ते द्विजाः सन्ध्यां न पश्चिमाम् 019a
सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् 019c
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् 020a
न हीदृशमनायुष्यं लोके किञ्चन विद्यते 020c
यादृशं पुरुषस्येह परदारोपसेवनम् 020e
प्रसाधनं च केशानामञ्जनं दन्तधावनम् 021a
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् 021c
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन 022a
उदक्यया च सम्भाषां न कुर्वीत कदाचन 022c
नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके 023a
उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन 023c
प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् 024a
प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् 024c
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः 025a
धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः 025c
नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः 026a
अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् 026c
शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् 027a
निषण्णश्चापि खादेत न तु गच्छन्कथञ्चन 027c
मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे 028a
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् 029a
आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् 029c
त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन 030a
अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते 030c
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन 031a
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः 031c
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति 032a
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते 032c
अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् 033a
कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् 033c
न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् 034a
नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति 034c
स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् 034e
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः 035a
केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् 035c
न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै शिरः 036a
न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते 036c
शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदुपस्पृशेत् 037a
तिलपिष्टं न चाश्नीयात्तथायुर्विन्दते महत् 037c
नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन 038a
वाते च पूतिगन्धे च मनसापि न चिन्तयेत् 038c
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः 039a
आयुरस्य निकृन्तामि प्रजामस्याददे तथा 039c
य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति 040a
यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः 040c
तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन 040e
प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् 041a
ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः 041c
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः 042a
दक्षिणाभिमुखो रात्रौ तथास्यायुर्न रिष्यते 042c
त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः 043a
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः 043c
दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा 044a
क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा 044c
ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च 045a
तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः 045c
गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन 046a
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर 046c
सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह 047a
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः 047c
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् 048a
उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा 048c
नातिकल्पं नातिसायं न च मध्यन्दिने स्थिते 049a
नाज्ञातैः सह गच्छेत नैको न वृषलैः सह 049c
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च 050a
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च 050c
प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् 051a
चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान् 051c
मध्यन्दिने निशाकाले मध्यरात्रे च सर्वदा 052a
चतुष्पथान्न सेवेत उभे सन्ध्ये तथैव च 052c
उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् 053a
ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् 053c
अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः 054a
अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् 054c
वृथा मांसं न खादेत पृष्ठमांसं तथैव च 055a
आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् 055c
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत 056a
ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् 056c
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि 057a
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु 057c
रोहते सायकैर्विद्धं वनं परशुना हतम् 058a
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् 058c
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् 059a
रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् 059c
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् 060a
द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् 060c
परस्य दण्डं नोद्यच्छेत्क्रोद्धो नैनं निपातयेत् 061a
अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम् 061c
न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत् 062a
तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते 062c
कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः 063a
पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा 063c
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् 064a
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते 064c
संयावं कृसरं मांसं शष्कुली पायसं तथा 065a
आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् 065c
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा 066a
वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् 066c
न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् 066e
मातापितरमुत्थाय पूर्वमेवाभिवादयेत् 067a
आचार्यमथ वाप्येनं तथायुर्विन्दते महत् 067c
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः 068a
भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत् 068c
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः 069a
अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन 070a
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् 070c
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः 071a
न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन 071c
उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च 072a
प्राक्शिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः 072c
न भग्ने नावदीर्णे वा शयने प्रस्वपेत च 073a
नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन 073c
न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन 074a
स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः 074c
न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् 075a
आर्द्र एव तु वासांसि नित्यं सेवेत मानवः 075c
स्रजश्च नावकर्षेत न बहिर्धारयेत च 075e
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः 076a
वर्जयित्वा तु कमलं तथा कुवलयं विभो 076c
रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि 077a
काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् 077c
स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशां पते 077e
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः 078a
तथा नान्यधृतं धार्यं न चापदशमेव च 078c
अन्यदेव भवेद्वासः शयनीये नरोत्तम 079a
अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि 079c
प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च 080a
पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् 080c
उपवासं च कुर्वीत स्नातः शुचिरलङ्कृतः 081a
पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् 081c
नालीढया परिहतं भक्षयीत कदाचन 082a
तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च 082c
न सन्निकृष्टो मेधावी नाशुचिर्न च सत्सु च 083a
प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः 083c
पिप्पलं च वटं चैव शणशाकं तथैव च 084a
उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः 084c
आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् 085a
वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् 085c
न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु 086a
दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् 086c
वालेन तु न भुञ्जीत परश्राद्धं तथैव च 087a
सायं प्रातश्च भुञ्जीत नान्तराले समाहितः 087c
वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन 088a
भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् 088c
तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते 089a
पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः 089c
समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर 090a
विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने 090c
पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि 091a
निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित् 091c
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् 092a
दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना 092c
आचम्य चैव हस्तेन परिस्राव्य तथोदकम् 093a
अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् 093c
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः 094a
ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः 094c
अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च 095a
स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना 095c
अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् 096a
कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते 096c
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत 097a
तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा 097c
परापवादं न ब्रूयान्नाप्रियं च कदाचन 098a
न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना 098c
पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् 099a
संसर्गं च न गच्छेत तथायुर्विन्दते महत् 099c
न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् 100a
न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् 100c
स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते 101a
त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः 101c
इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः 102a
कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा 102c
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव 103a
प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा 103c
सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् 104a
निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् 104c
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि 105a
गृहे वासयितव्यास्ते धन्यमायुष्यमेव च 105c
गृहे पारावता धन्याः शुकाश्च सहसारिकाः 106a
गृहेष्वेते न पापाय तथा वै तैलपायिकाः 106c
उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा 107a
निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् 107c
अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् 108a
महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित् 108c
अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा 109a
वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर 109c
बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च 110a
सम्बन्धिनां च राजेन्द्र तथायुर्विन्दते महत् 110c
ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् 111a
तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर 111c
सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् 112a
न भुञ्जीत च मेधावी तथायुर्विन्दते महत् 112c
नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् 113a
पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता 113c
वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत 114a
शेषाणि चावदातानि पानीयं चैव भोजने 114c
सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् 115a
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् 115c
महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा 116a
वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति 116c
अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा 117a
पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत 117c
कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते 118a
पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत 118c
शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च 119a
नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः 119c
न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत 119e
दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् 120a
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् 120c
प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः 121a
उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महत् 121c
परिवादं न च ब्रूयात्परेषामात्मनस्तथा 122a
परिवादो न धर्माय प्रोच्यते भरतर्षभ 122c
वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम 123a
समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा 123c
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् 124a
तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् 124c
अयोनिं च वियोनिं च न गच्छेत विचक्षणः 125a
पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि 125c
अपस्मारिकुले जातां निहीनां चैव वर्जयेत् 126a
श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर 126c
लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः 127a
मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति 127c
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर 128a
अवरा पतिता चैव न ग्राह्या भूतिमिच्छता 128c
अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः 129a
वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् 129c
न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः 130a
अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् 130c
अनायुष्यो दिवास्वप्नस्तथाभ्युदितशायिता 131a
प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै 131c
पारदार्यमनायुष्यं नापितोच्छिष्टता तथा 132a
यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत 132c
सन्ध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् 133a
प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत् 133c
ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप 134a
देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् 134c
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः 135a
अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत 135c
न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि 136a
अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत् 136c
मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् 137a
हितं वाप्यहितं वापि न विचार्यं नरर्षभ 137c
धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप 138a
हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह 138c
यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते 138e
अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च 139a
प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् 139c
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत 140a
गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप 140c
पुराणमितिहासाश्च तथाख्यानानि यानि च 141a
महात्मनां च चरितं श्रोतव्यं नित्यमेव ते 141c
पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् 142a
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः 142c
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् 143a
एतेन विधिना पत्नीमुपगच्छेत पण्डितः 143c
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि नित्यशः 144a
यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः 144c
अतऊर्ध्वमरण्यं च सेवितव्यं नराधिप 144e
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः 145a
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर 145c
आचारो भूतिजनन आचारः कीर्तिवर्धनः 146a
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् 146c
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते 147a
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते 147c
एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 148a
अनुकम्पता सर्ववर्णान्ब्रह्मणा समुदाहृतम् 148c