युधिष्ठिर उवाच 001
दानं बहुविधाकारं शान्तिः सत्यमहिंसता 001a
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् 001c
पितामहस्य विदितं किमन्यत्र तपोबलात् 002a
तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि 002c
भीष्म उवाच 003
तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर 003a
मतं मम तु कौन्तेय तपो नानशनात्परम् 003c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 004a
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः 004c
अतीत्य सुरलोकं च गवां लोकं च भारत 005a
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः 005c
तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम् 006a
कथं भगीरथागास्त्वमिमं देशं दुरासदम् 006c
न हि देवा न गन्धर्वा न मनुष्या भगीरथ 007a
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः 007c
भगीरथ उवाच 008
निःशङ्कमन्नमददं ब्राह्मणेभ्यः शतं सहस्राणि सदैव दानम् 008a
ब्राह्मं व्रतं नित्यमास्थाय विद्धि न त्वेवाहं तस्य फलादिहागाम् 008c
दशैकरात्रान्दश पञ्चरात्रानेकादशैकादशकान्क्रतूंश्च 009a
ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम् 009c
यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम् 010a
अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम् 010c
दशायुतानि चाश्वानामयुतानि च विंशतिम् 011a
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः 011c
सुवर्णचन्द्रोडुपधारिणीनां कन्योत्तमानामददं स्रग्विणीनाम् 012a
षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन 012c
दशार्बुदान्यददं गोसवेज्यास्वेकैकशो दश गा लोकनाथ 013a
समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन 013c
अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् 014a
गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च 014c
दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह 015a
प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः 015c
वाजिनां बाह्लिजातानामयुतान्यददं दश 016a
कर्काणां हेममालानां न च तेनाहमागतः 016c
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् 017a
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः 017c
वाजिनां श्यामकर्णानां हरितानां पितामह 018a
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च 018c
ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् 019a
पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च 019c
अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः 020a
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश 020c
सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः 020e
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः 021a
वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् 021c
शक्रतुल्यप्रभावानामिज्यया विक्रमेण च 022a
सहस्रं निष्ककण्ठानामददं दक्षिणामहम् 022c
विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह 023a
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः 023c
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते 024a
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते 024c
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते 025a
वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् 025c
तपस्वी नियताहारः शममास्थाय वाग्यतः 025e
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् 026a
मूर्ध्ना धारां महादेवः शिरसा यामधारयत् 026c
न तेनाप्यहमागच्छं फलेनेह पितामह 026e
शम्याक्षेपैरयजं यच्च देवान्सद्यस्कानामयुतैश्चापि यत्तत् 027a
त्रयोदशद्वादशाहांश्च देव सपौण्डरीकान्न च तेषां फलेन 027c
अष्टौ सहस्राणि ककुद्मिनामहं शुक्लर्षभाणामददं ब्राह्मणेभ्यः 028a
एकैकं वै काञ्चनं शृङ्गमेभ्यः पत्नीश्चैषामददं निष्ककण्ठीः 028c
हिरण्यरत्ननिचितानददं रत्नपर्वतान् 029a
धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः 029c
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः 030a
इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च 030c
एकादशाहैरयजं सदक्षिणैर्द्विर्द्वादशाहैरश्वमेधैश्च देव 031a
आर्कायणैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह न चागतोऽस्मि 031c
निष्कैककण्ठमददं योजनायतं तद्विस्तीर्णं काञ्चनपादपानाम् 032a
वनं चूतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन 032c
तुरायणं हि व्रतमप्रधृष्यमक्रोधनोऽकरवं त्रिंशतोऽब्दान् 033a
शतं गवामष्ट शतानि चैव दिने दिने ह्यददं ब्राह्मणेभ्यः 033c
पयस्विनीनामथ रोहिणीनां तथैव चाप्यनडुहां लोकनाथ 034a
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् 034c
त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा 035a
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः 035c
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः 036a
न चैव तेषां देवेश फलेनाहमिहागतः 036c
सरय्वां बाहुदायां च गङ्गायामथ नैमिषे 037a
गवां शतानामयुतमददं न च तेन वै 037c
इन्द्रेण गुह्यं निहितं वै गुहायां यद्भार्गवस्तपसेहाभ्यविन्दत् 038a
जाज्वल्यमानमुशनस्तेजसेह तत्साधयामासमहं वरेण्यम् 038c
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते 039a
सहस्रमृषयश्चासन्ये वै तत्र समागताः 039c
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो 039e
प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो 040a
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा 040c
कामं यथावद्विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत् 041a
तपो हि नान्यच्चानशनान्मतं मे नमोऽस्तु ते देववर प्रसीद 041c
भीष्म उवाच 042
इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् 042a
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा 042c