युधिष्ठिर उवाच 001
एको लोकः सुकृतिनां सर्वे त्वाहो पितामह 001a
उत तत्रापि नानात्वं तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः 002a
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
गौतमस्य मुनेस्तात संवादं वासवस्य च 003c
ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः 004a
महावने हस्तिशिशुं परिद्यूनममातृकम् 004c
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः 005a
स तु दीर्घेण कालेन बभूवातिबलो महान् 005c
तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् 006a
धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् 006c
ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः 007a
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः 007c
मा मे हार्षीर्हस्तिनं पुत्रमेनं दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ 008a
मित्रं सतां सप्तपदं वदन्ति मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम् 008c
इध्मोदकप्रदातारं शून्यपालकमाश्रमे 009a
विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि 009c
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम 010a
न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् 010c
धृतराष्ट्र उवाच 011
गवां सहस्रं भवते ददामि दासीशतं निष्कशतानि पञ्च 011a
अन्यच्च वित्तं विविधं महर्षे किं ब्राह्मणस्येह गजेन कृत्यम् 011c
गौतम उवाच 012
त्वामेव गावोऽभि भवन्तु राजन्दास्यः सनिष्का विविधं च रत्नम् 012a
अन्यच्च वित्तं विविधं नरेन्द्र किं ब्राह्मणस्येह धनेन कृत्यम् 012c
धृतराष्ट्र उवाच 013
ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं राजन्यानां नागकुलानि विप्र 013a
स्वं वाहनं नयतो नास्त्यधर्मो नागश्रेष्ठाद्गौतमास्मान्निवर्त 013c
गौतम उवाच 014
यत्र प्रेतो नन्दति पुण्यकर्मा यत्र प्रेतः शोचति पापकर्मा 014a
वैवस्वतस्य सदने महात्मनस्तत्र त्वाहं हस्तिनं यातयिष्ये 014c
धृतराष्ट्र उवाच 015
ये निष्क्रिया नास्तिकाः श्रद्दधानाः पापात्मान इन्द्रियार्थे निविष्टाः 015a
यमस्य ते यातनां प्राप्नुवन्ति परं गन्ता धृतराष्ट्रो न तत्र 015c
गौतम उवाच 016
वैवस्वती संयमनी जनानां यत्रानृतं नोच्यते यत्र सत्यम् 016a
यत्राबला बलिनं यातयन्ति तत्र त्वाहं हस्तिनं यातयिष्ये 016c
धृतराष्ट्र उवाच 017
ज्येष्ठां स्वसारं पितरं मातरं च गुरुं यथा मानयन्तश्चरन्ति 017a
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र 017c
गौतम उवाच 018
मन्दाकिनी वैश्रवणस्य राज्ञो महाभोगा भोगिजनप्रवेश्या 018a
गन्धर्वयक्षैरप्सरोभिश्च जुष्टा तत्र त्वाहं हस्तिनं यातयिष्ये 018c
धृतराष्ट्र उवाच 019
अतिथिव्रताः सुव्रता ये जना वै प्रतिश्रयं ददति ब्राह्मणेभ्यः 019a
शिष्टाशिनः संविभज्याश्रितांश्च मन्दाकिनीं तेऽपि विभूषयन्ति 019c
गौतम उवाच 020
मेरोरग्रे यद्वनं भाति रम्यं सुपुष्पितं किन्नरगीतजुष्टम् 020a
सुदर्शना यत्र जम्बूर्विशाला तत्र त्वाहं हस्तिनं यातयिष्ये 020c
धृतराष्ट्र उवाच 021
ये ब्राह्मणा मृदवः सत्यशीला बहुश्रुताः सर्वभूताभिरामाः 021a
येऽधीयन्ते सेतिहासं पुराणं मध्वाहुत्या जुह्वति च द्विजेभ्यः 021c
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र 022a
यद्विद्यते विदितं स्थानमस्ति तद्ब्रूहि त्वं त्वरितो ह्येष यामि 022c
गौतम उवाच 023
सुपुष्पितं किन्नरराजजुष्टं प्रियं वनं नन्दनं नारदस्य 023a
गन्धर्वाणामप्सरसां च सद्म तत्र त्वाहं हस्तिनं यातयिष्ये 023c
धृतराष्ट्र उवाच 024
ये नृत्तगीतकुशला जनाः सदा ह्ययाचमानाः सहिताश्चरन्ति 024a
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र 024c
गौतम उवाच 025
यत्रोत्तराः कुरवो भान्ति रम्या देवैः सार्धं मोदमाना नरेन्द्र 025a
यत्राग्नियौनाश्च वसन्ति विप्रा ह्ययोनयः पर्वतयोनयश्च 025c
यत्र शक्रो वर्षति सर्वकामान्यत्र स्त्रियः कामचाराश्चरन्ति 026a
यत्र चेर्ष्या नास्ति नारीनराणां तत्र त्वाहं हस्तिनं यातयिष्ये 026c
धृतराष्ट्र उवाच 027
ये सर्वभूतेषु निवृत्तकामा अमांसादा न्यस्तदण्डाश्चरन्ति 027a
न हिंसन्ति स्थावरं जङ्गमं च भूतानां ये सर्वभूतात्मभूताः 027c
निराशिषो निर्ममा वीतरागा लाभालाभे तुल्यनिन्दाप्रशंसाः 028a
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र 028c
गौतम उवाच 029
ततः परं भान्ति लोकाः सनातनाः सुपुण्यगन्धा निर्मला वीतशोकाः 029a
सोमस्य राज्ञः सदने महात्मनस्तत्र त्वाहं हस्तिनं यातयिष्ये 029c
धृतराष्ट्र उवाच 030
ये दानशीला न प्रतिगृह्णते सदा न चाप्यर्थानाददते परेभ्यः 030a
येषामदेयमर्हते नास्ति किञ्चित्सर्वातिथ्याः सुप्रसादा जनाश्च 030c
ये क्षन्तारो नाभिजल्पन्ति चान्याञ्शक्ता भूत्वा सततं पुण्यशीलाः 031a
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र 031c
गौतम उवाच 032
ततः परं भान्ति लोकाः सनातना विरजसो वितमस्का विशोकाः 032a
आदित्यस्य सुमहान्तः सुवृत्तास्तत्र त्वाहं हस्तिनं यातयिष्ये 032c
धृतराष्ट्र उवाच 033
स्वाध्यायशीला गुरुशुश्रूषणे रतास्तपस्विनः सुव्रताः सत्यसन्धाः 033a
आचार्याणामप्रतिकूलभाषिणो नित्योत्थिता गुरुकर्मस्वचोद्याः 033c
तथाविधानामेष लोको महर्षे विशुद्धानां भावितवाङ्मतीनाम् 034a
सत्ये स्थितानां वेदविदां महात्मनां परं गन्ता धृतराष्ट्रो न तत्र 034c
गौतम उवाच 035
ततः परे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा विशोकाः 035a
वरुणस्य राज्ञः सदने महात्मनस्तत्र त्वाहं हस्तिनं यातयिष्ये 035c
धृतराष्ट्र उवाच 036
चातुर्मास्यैर्ये यजन्ते जनाः सदा तथेष्टीनां दशशतं प्राप्नुवन्ति 036a
ये चाग्निहोत्रं जुह्वति श्रद्दधाना यथान्यायं त्रीणि वर्षाणि विप्राः 036c
स्वदारिणां धर्मधुरे महात्मनां यथोचिते वर्त्मनि सुस्थितानाम् 037a
धर्मात्मनामुद्वहतां गतिं तां परं गन्ता धृतराष्ट्रो न तत्र 037c
गौतम उवाच 038
इन्द्रस्य लोका विरजा विशोका दुरन्वयाः काङ्क्षिता मानवानाम् 038a
तस्याहं ते भवने भूरितेजसो राजन्निमं हस्तिनं यातयिष्ये 038c
धृतराष्ट्र उवाच 039
शतवर्षजीवी यश्च शूरो मनुष्यो वेदाध्यायी यश्च यज्वाप्रमत्तः 039a
एते सर्वे शक्रलोकं व्रजन्ति परं गन्ता धृतराष्ट्रो न तत्र 039c
गौतम उवाच 040
प्राजापत्याः सन्ति लोका महान्तो नाकस्य पृष्ठे पुष्कला वीतशोकाः 040a
मनीषिताः सर्वलोकोद्भवानां तत्र त्वाहं हस्तिनं यातयिष्ये 040c
धृतराष्ट्र उवाच 041
ये राजानो राजसूयाभिषिक्ता धर्मात्मानो रक्षितारः प्रजानाम् 041a
ये चाश्वमेधावभृथाप्लुताङ्गास्तेषां लोका धृतराष्ट्रो न तत्र 041c
गौतम उवाच 042
ततः परं भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः 042a
तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये गवां लोके हस्तिनं यातयिष्ये 042c
धृतराष्ट्र उवाच 043
यो गोसहस्री शतदः समां समां यो गोशती दश दद्याच्च शक्त्या 043a
तथा दशभ्यो यश्च दद्यादिहैकां पञ्चभ्यो वा दानशीलस्तथैकाम् 043c
ये जीर्यन्ते ब्रह्मचर्येण विप्रा ब्राह्मीं वाचं परिरक्षन्ति चैव 044a
मनस्विनस्तीर्थयात्रापरायणास्ते तत्र मोदन्ति गवां विमाने 044c
प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः 045a
पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् 045c
गयां गयशिरश्चैव विपाशां स्थूलवालुकाम् 046a
तूष्णीङ्गङ्गां दशगङ्गां महाह्रदमथापि च 046c
गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः 047a
सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च 047c
तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः 048a
प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै 048c
गौतम उवाच 049
यत्र शीतभयं नास्ति न चोष्णभयमण्वपि 049a
न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा 049c
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा 050a
न जरामरणे वापि न पुण्यं न च पातकम् 050c
तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते 051a
स्वयम्भुभवने पुण्ये हस्तिनं मे यतिष्यति 051c
धृतराष्ट्र उवाच 052
निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः 052a
अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः 052c
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः 053a
न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने 053c
गौतम उवाच 054
रथन्तरं यत्र बृहच्च गीयते यत्र वेदी पुण्डरीकैः स्तृणोति 054a
यत्रोपयाति हरिभिः सोमपीथी तत्र त्वाहं हस्तिनं यातयिष्ये 054c
बुध्यामि त्वां वृत्रहणं शतक्रतुं व्यतिक्रमन्तं भुवनानि विश्वा 055a
कच्चिन्न वाचा वृजिनं कदा चिदकार्षं ते मनसोऽभिषङ्गात् 055c
शक्र उवाच 056
यस्मादिमं लोकपथं प्रजानामन्वागमं पदवादे गजस्य 056a
तस्माद्भवान्प्रणतं मानुशास्तु ब्रवीषि यत्तत्करवाणि सर्वम् 056c
गौतम उवाच 057
श्वेतं करेणुं मम पुत्रनागं यं मेऽहार्षीर्दशवर्षाणि बालम् 057a
यो मे वने वसतोऽभूद्द्वितीयस्तमेव मे देहि सुरेन्द्र नागम् 057c
शक्र उवाच 058
अयं सुतस्ते द्विजमुख्य नागश्चाघ्रायते त्वामभिवीक्षमाणः 058a
पादौ च ते नासिकयोपजिघ्रते श्रेयो मम ध्याहि नमश्च तेऽस्तु 058c
गौतम उवाच 059
शिवं सदैवेह सुरेन्द्र तुभ्यं ध्यायामि पूजां च सदा प्रयुञ्जे 059a
ममापि त्वं शक्र शिवं ददस्व त्वया दत्तं प्रतिगृह्णामि नागम् 059c
शक्र उवाच 060
येषां वेदा निहिता वै गुहायां मनीषिणां सत्त्ववतां महात्मनाम् 060a
तेषां त्वयैकेन महात्मनास्मि बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य 060c
हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना 061a
प्राप्नुहि त्वं शुभाल्ँलोकानह्नाय च चिराय च 061c
भीष्म उवाच 062
स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना 062a
दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् 062c