युधिष्ठिर उवाच 001
ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ 001a
नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत 002c
राजन्य उवाच 003
वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे 003a
श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् 003c
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते 004a
कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि 004c
चण्डाल उवाच 005
ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा 005a
सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः 005c
दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् 006a
सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् 006c
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः 007a
ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् 007c
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः 008a
पशूनवेक्षमाणाश्च साधुवृत्तेन दम्पती 008c
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः 009a
तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप 009c
चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः 010a
ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ 010c
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन 011a
ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् 011c
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता 012a
विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः 012c
ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः 013a
ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः 013c
सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् 014a
श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति 014c
नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति 014e
श्वचर्यामतिमानं च सखिदारेषु विप्लवम् 015a
तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते 015c
श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् 016a
अतिमानेन भूतानामिमां गतिमुपागतम् 016c
अहं वै विपुले जातः कुले धनसमन्विते 017a
अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः 017c
अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा 018a
संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् 018c
सोऽहं तेन च वृत्तेन भोजनेन च तेन वै 019a
इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम् 019c
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् 020a
धावमानं सुसंरब्धं पश्य मां रजसान्वितम् 020c
स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः 021a
दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः 021c
तथा पापकृतं विप्रमाश्रमस्थं महीपते 022a
सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत 022c
अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ 023a
निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत 023c
जातिस्मरत्वं तु मम केनचित्पूर्वकर्मणा 024a
शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप 024c
त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते 025a
चण्डालत्वात्कथमहं मुच्येयमिति सत्तम 025c
राजन्य उवाच 026
चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि 026a
ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि 026c
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् 027a
हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि 027c
भीष्म उवाच 028
इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परन्तप 028a
हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह 028c
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ 029a
यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् 029c