युधिष्ठिर उवाच 001
कथं स वै विपन्नश्च कथं वै पातितो भुवि 001a
कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति 001c
भीष्म उवाच 002
एवं तयोः संवदतोः क्रियास्तस्य महात्मनः 002a
सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः 002c
तथैव दीपदानानि सर्वोपकरणानि च 003a
बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः 003c
सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः 003e
देवलोके नृलोके च सदाचारा बुधैः स्मृताः 004a
ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः 004c
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च 004e
यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते 005a
बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः 005c
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा 006a
तथा शतगुणा प्रीतिर्देवतानां स्म जायते 006c
एवं धूपप्रदानं च दीपदानं च साधवः 007a
प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् 007c
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता 008a
नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः 008c
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः 008e
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः 009a
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् 009c
कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते 010a
सर्वमेतदवज्ञाय न चकारैतदीदृशम् 010c
ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः 011a
धूपदीपोदकविधिं न यथावच्चकार ह 011c
ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत 011e
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह 012a
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः 012c
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् 013a
निमीलयस्व नयने जटा यावद्विशामि ते 013c
स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः 014a
भृगुः स सुमहातेजाः पातनाय नृपस्य ह 014c
ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै 015a
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते 015c
योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते 016a
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप 016c
इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् 017a
भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् 017c
न चापि दर्शनं तस्य चकार स भृगुस्तदा 018a
वरदानप्रभावज्ञो नहुषस्य महात्मनः 018c
न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै 019a
तं तु राजा प्रतोदेन चोदयामास भारत 019c
न चुकोप स धर्मात्मा ततः पादेन देवराट् 020a
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः 020c
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः 021a
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् 021c
भृगुरुवाच 022
यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् 022a
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते 022c
इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह 023a
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ 023c
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते 024a
न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा 024c
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा 025a
पतितोऽपि महाराज भूतले स्मृतिमानभूत् 025c
प्रसादयामास भृगुं शापान्तो मे भवेदिति 025e
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् 026a
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः 026c
भृगुरुवाच 027
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः 027a
स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत 027c
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः 028a
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः 028c
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः 029a
जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप 029c
तदा तु पातयित्वा तं नहुषं भूतले भृगुः 030a
जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् 030c
ततः शक्रं समानाय्य देवानाह पितामहः 031a
वरदानान्मम सुरा नहुषो राज्यमाप्तवान् 031c
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः 031e
न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित् 032a
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् 032c
एवं सम्भाषमाणं तु देवाः पार्थ पितामहम् 033a
एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् 033c
सोऽभिषिक्तो भगवता देवराज्येन वासवः 034a
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत 034c
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् 035a
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः 035c
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः 036a
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः 036c
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत 036e
यावदक्षिणिमेषाणि ज्वलते तावतीः समाः 037a
रूपवान्धनवांश्चापि नरो भवति दीपदः 037c