युधिष्ठिर उवाच 001
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् 001a
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि 001c
धूपप्रदानस्य फलं प्रदीपस्य तथैव च 002a
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा 003c
नहुषो हि महाराज राजर्षिः सुमहातपाः 004a
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा 004c
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् 005a
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः 005c
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः 006a
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः 006c
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा 007a
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च 007c
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः 008a
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः 008c
दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः 009a
सर्वाण्येव यथान्यायं यथापूर्वमरिन्दम 009c
अथेन्द्रस्य भविष्यत्वादहङ्कारस्तमाविशत् 010a
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते 010c
स ऋषीन्वाहयामास वरदानमदान्वितः 011a
परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान् 011c
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् 012a
अहङ्काराभिभूतस्य सुमहानत्यवर्तत 012c
अथ पर्यायश ऋषीन्वाहनायोपचक्रमे 013a
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत 013c
अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः 014a
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् 014c
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः 015a
नहुषस्य किमर्थं वै मर्षयाम महामुने 015c
अगस्त्य उवाच 016
कथमेष मया शक्यः शप्तुं यस्य महामुने 016a
वरदेन वरो दत्तो भवतो विदितश्च सः 016c
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति 017a
इत्यनेन वरो देवाद्याचितो गच्छता दिवम् 017c
एवं न दग्धः स मया भवता च न संशयः 018a
अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः 018c
अमृतं चैव पानाय दत्तमस्मै पुरा विभो 019a
महात्मने तदर्थं च नास्माभिर्विनिपात्यते 019c
प्रायच्छत वरं देवः प्रजानां दुःखकारकम् 020a
द्विजेष्वधर्मयुक्तानि स करोति नराधमः 020c
अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर 021a
भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम् 021c
भृगुरुवाच 022
पितामहनियोगेन भवन्तमहमागतः 022a
प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते 022c
अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् 023a
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा 023c
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् 024a
सञ्चाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् 024c
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति 025a
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः 025c
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् 026a
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् 026c
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् 027a
धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने 027c
नहुषं पापकर्माणमैश्वर्यबलमोहितम् 028a
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने 028c
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः 029a
अगस्त्यः परमप्रीतो बभूव विगतज्वरः 029c