युधिष्ठिर उवाच 001
आलोकदानं नामैतत्कीदृशं भरतर्षभ 001a
कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत 002c
तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः 003a
वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे 003c
कुलशीलगुणोपेतः स्वाध्याये च परं गतः 004a
बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः 004c
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च 005a
कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः 005c
ततस्तौ सिद्धसङ्कल्पौ मेरौ काञ्चनपर्वते 006a
रमणीये शिलापृष्ठे सहितौ सन्न्यषीदताम् 006c
तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः 007a
ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् 007c
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायम्भुवं प्रभुम् 008a
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि 008c
सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर 009a
किमेतत्कथमुत्पन्नं फलयोगं च शंस मे 009c
मनुरुवाच 010
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 010a
शुक्रस्य च बलेश्चैव संवादं वै समागमे 010c
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः 011a
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः 011c
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः 012a
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः 012c
कथेयमभवत्तत्र या त्वया परिकीर्तिता 013a
सुमनोधूपदीपानां सम्प्रदाने फलं प्रति 013c
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् 014a
सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम 014c
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति 014e
शुक्र उवाच 015
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् 015a
एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च 015c
सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले 016a
अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः 016c
अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च 017a
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः 017c
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् 018a
ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसम्भवम् 018c
मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह 019a
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः 019c
देवताभ्यः सुमनसो यो ददाति नरः शुचिः 020a
तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः 020c
यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो 021a
मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप 021c
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् 022a
ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च 022c
यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे 023a
आसुराणि च माल्यानि दैवतेभ्यो हितानि च 023c
राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः 024a
पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः 024c
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः 025a
अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः 025c
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः 026a
इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् 026c
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः 027a
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो 027c
जलजानि च माल्यानि पद्मादीनि च यानि च 028a
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः 028c
ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः 029a
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः 029c
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः 030a
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् 030c
मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः 031a
चारुरूपाः सुमनसो मानुषाणां स्मृता विभो 031c
न तु श्मशानसम्भूता न देवायतनोद्भवाः 032a
सन्नयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च 032c
गिरिसानुरुहाः सौम्या देवानामुपपादयेत् 033a
प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति 033c
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः 034a
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः 034c
सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत 035a
सङ्कल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः 035c
देवाः प्रीणन्ति सततं मानिता मानयन्ति च 036a
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् 036c
अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् 037a
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे 037c
निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः 038a
इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु 038c
निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते 039a
गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः 039c
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् 040a
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः 040c
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः 041a
फाणितासवसंयुक्तैर्मनुष्याणां विधीयते 041c
देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः 042a
येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः 042c
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः 043a
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः 043c
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् 044a
यथा येन यदा चैव प्रदेया यादृशाश्च ते 044c
ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते 045a
प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् 045c
अन्धं तमस्तमिस्रं च दक्षिणायनमेव च 046a
उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते 046c
यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् 047a
तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः 047c
देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः 048a
तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते 048c
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः 049a
तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् 049c
दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः 050a
दीपप्रदः स्वर्गलोके दीपमाली विराजते 050c
हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः 051a
वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता 051c
गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे 052a
दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः 052c
कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति 053a
ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा 053c
बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् 054a
देवयक्षोरगनृणां भूतानामथ रक्षसाम् 054c
येषां नाग्रभुजो विप्रा देवतातिथिबालकाः 055a
राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् 055c
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् 056a
शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः 056c
गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा 057a
बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः 057c
इतो दत्तेन जीवन्ति देवताः पितरस्तथा 058a
ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः 058c
बलयः सह पुष्पैस्तु देवानामुपहारयेत् 059a
दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः 059c
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् 060a
सुरासवपुरस्कारा लाजोल्लेपनभूषिताः 060c
नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः 061a
तिलान्गुडसुसम्पन्नान्भूतानामुपहारयेत् 061c
अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः 062a
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् 062c
ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः 063a
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना 063c
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः 064a
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च 064c
नारदोऽपि मयि प्राह गुणानेतान्महाद्युते 065a
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक 065c