युधिष्ठिर उवाच 001
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ 001a
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप 002a
वासुदेवस्य संवादं पृथिव्याश्चैव भारत 002c
संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् 003a
पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् 003c
वासुदेव उवाच 004
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा 004a
किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् 004c
पृथिव्युवाच 005
ऋषयः पितरो देवा मनुष्याश्चैव माधव 005a
इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे 005c
सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् 006a
छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः 006c
तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन 006e
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च 007a
कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन 007c
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा 008a
पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् 008c
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि 009a
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् 009c
प्रजानां पतये चैव पृथग्घोमो विधीयते 010a
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् 010c
दक्षिणायां यमायेह प्रतीच्यां वरुणाय च 011a
सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये 011c
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव 012a
मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै 012c
मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् 012e
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् 013a
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् 013c
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये 014a
अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् 014c
यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः 015a
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि 015c
पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः 016a
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् 016c
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि 017a
अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् 017c
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते 018a
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः 019a
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् 019c
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते 020a
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् 020c
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च 021a
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् 021c
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि 022a
वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते 022c
एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः 023a
स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते 023c
भीष्म उवाच 024
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् 024a
तथा चकार सततं त्वमप्येवं समाचर 024c
एवं गृहस्थधर्मं त्वं चेतयानो नराधिप 025a
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि 025c