युधिष्ठिर उवाच 001
आरामाणां तडागानां यत्फलं कुरुनन्दन 001a
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ 001c
भीष्म उवाच 002
सुप्रदर्शा वनवती चित्रधातुविभूषिता 002a
उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते 002c
तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् 003a
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः 003c
तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः 004a
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् 004c
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् 005a
कीर्तिसञ्जननं श्रेष्ठं तडागानां निवेशनम् 005c
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः 006a
तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् 006c
चतुर्विधानां भूतानां तडागमुपलक्षयेत् 007a
तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् 007c
देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः 008a
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् 008c
तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः 009a
या च तत्र फलावाप्तिरृषिभिः समुदाहृता 009c
वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति 010a
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः 010c
शरत्काले तु सलिलं तडागे यस्य तिष्ठति 011a
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् 011c
हेमन्तकाले सलिलं तडागे यस्य तिष्ठति 012a
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् 012c
यस्य वै शैशिरे काले तडागे सलिलं भवेत् 013a
अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः 013c
तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् 014a
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते 014c
निदाघकाले पानीयं तडागे यस्य तिष्ठति 015a
वाजपेयसमं तस्य फलं वै मुनयो विदुः 015c
स कुलं तारयेत्सर्वं यस्य खाते जलाशये 016a
गावः पिबन्ति पानीयं साधवश्च नराः सदा 016c
तडागे यस्य गावस्तु पिबन्ति तृषिता जलम् 017a
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् 017c
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च 018a
तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते 018c
दुर्लभं सलिलं तात विशेषेण परत्र वै 019a
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती 019c
तिलान्ददत पानीयं दीपान्ददत जाग्रत 020a
ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् 020c
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते 021a
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि 021c
एवमेतत्तडागेषु कीर्तितं फलमुत्तमम् 022a
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे 022c
स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः 023a
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः 023c
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे 024a
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् 024c
लभते नाम लोके च पितृभिश्च महीयते 025a
देवलोकगतस्यापि नाम तस्य न नश्यति 025c
अतीतानागते चोभे पितृवंशं च भारत 026a
तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् 026c
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः 027a
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् 027c
पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् 028a
छायया चातिथींस्तात पूजयन्ति महीरुहाः 028c
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः 029a
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् 029c
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् 030a
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च 030c
तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा 031a
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः 031c
तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः 032a
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः 032c
तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत् 033a
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् 033c