युधिष्ठिर उवाच 001
एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः 001a
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत 001c
भीष्म उवाच 002
तथा प्रयाचमानस्य मुनिरग्निसमप्रभः 002a
जमदग्निः शमं नैव जगाम कुरुनन्दन 002c
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् 003a
कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते 003c
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः 004a
कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् 004c
जमदग्निरुवाच 005
स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा 005a
अवश्यं विनयाधानं कार्यमद्य मया तव 005c
अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर 006a
तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा 006c
सूर्य उवाच 007
असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर 007a
अपकारिणं तु मां विद्धि भगवञ्शरणागतम् 007c
भीष्म उवाच 008
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् 008a
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि 008c
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले 009a
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च 009c
दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च 010a
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् 010c
भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत् 011a
सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् 011c
एतस्य त्वपनीतस्य समाधिं तात चिन्तय 012a
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः 012c
भीष्म उवाच 013
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः 013a
अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै 013c
सूर्य उवाच 014
महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम् 014a
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके 014c
अद्यप्रभृति चैवैतल्लोके सम्प्रचरिष्यति 015a
पुण्यदानेषु सर्वेषु परमक्षय्यमेव च 015c
भीष्म उवाच 016
उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम् 016a
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत 016c
तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम् 017a
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा 017c
छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये 018a
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते 018c
स शक्रलोके वसति पूज्यमानो द्विजातिभिः 019a
अप्सरोभिश्च सततं देवैश्च भरतर्षभ 019c
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ 020a
स्नातकाय महाबाहो संशिताय द्विजातये 020c
सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् 021a
गोलोके स मुदा युक्तो वसति प्रेत्य भारत 021c
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् 022a
छत्रोपानहदानस्य फलं भरतसत्तम 022c