भीष्म उवाच 001
अत्रैवोदाहरन्तीममितिहासं पुरातनम् 001a
यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु 001c
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम 002a
राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः 002c
ऋषयः समेताः पश्चिमे वै प्रभासे समागता मन्त्रममन्त्रयन्त 003a
चराम सर्वे पृथिवीं पुण्यतीर्थां तन्नः कार्यं हन्त गच्छाम सर्वे 003c
शुक्रोऽङ्गिराश्चैव कविश्च विद्वांस्तथागस्त्यो नारदपर्वतौ च 004a
भृगुर्वसिष्ठः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन् 004c
ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती वालखिल्याः 005a
शिबिर्दिलीपो नहुषोऽम्बरीषो राजा ययातिर्धुन्धुमारोऽथ पूरुः 005c
जग्मुः पुरस्कृत्य महानुभावं शतक्रतुं वृत्रहणं नरेन्द्र 006a
तीर्थानि सर्वाणि परिक्रमन्तो माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् 006c
सर्वेषु तीर्थेष्वथ धूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम् 007a
देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः 007c
केचिद्बिसान्यखनंस्तत्र राजन्नन्ये मृणालान्यखनंस्तत्र विप्राः 008a
अथापश्यन्पुष्करं ते ह्रियन्तं ह्रदादगस्त्येन समुद्धृतं वै 008c
तानाह सर्वानृषिमुख्यानगस्त्यः केनादत्तं पुष्करं मे सुजातम् 009a
युष्माञ्शङ्के दीयतां पुष्करं मे न वै भवन्तो हर्तुमर्हन्ति पद्मम् 009c
शृणोमि कालो हिंसते धर्मवीर्यं सेयं प्राप्ता वर्धते धर्मपीडा 010a
पुराधर्मो वर्धते नेह यावत्तावद्गच्छामि परलोकं चिराय 010c
पुरा वेदान्ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृषलाञ्श्रावयन्ति 011a
पुरा राजा व्यवहारानधर्म्यान्पश्यत्यहं परलोकं व्रजामि 011c
पुरावरान्प्रत्यवरान्गरीयसो यावन्नरा नावमंस्यन्ति सर्वे 012a
तमोत्तरं यावदिदं न वर्तते तावद्व्रजामि परलोकं चिराय 012c
पुरा प्रपश्यामि परेण मर्त्यान्बलीयसा दुर्बलान्भुज्यमानान् 013a
तस्माद्यास्यामि परलोकं चिराय न ह्युत्सहे द्रष्टुमीदृङ्नृलोके 013c
तमाहुरार्ता ऋषयो महर्षिं न ते वयं पुष्करं चोरयामः 014a
मिथ्याभिषङ्गो भवता न कार्यः शपाम तीक्ष्णाञ्शपथान्महर्षे 014c
ते निश्चितास्तत्र महर्षयस्तु सम्मन्यन्तो धर्ममेवं नरेन्द्र 015a
ततोऽशपञ्शपथान्पर्ययेण सहैव ते पार्थिव पुत्रपौत्रैः 015c
भृगुरुवाच 016
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् 016a
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् 016c
वसिष्ठ उवाच 017
अस्वाध्यायपरो लोके श्वानं च परिकर्षतु 017a
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् 017c
कश्यप उवाच 018
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च 018a
कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् 018c
गौतम उवाच 019
जीवत्वहङ्कृतो बुद्ध्या विपणत्वधमेन सः 019a
कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् 019c
अङ्गिरा उवाच 020
अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु 020a
ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् 020c
धुन्धुमार उवाच 021
अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु 021a
एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम् 021c
पूरुरुवाच 022
चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु 022a
श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् 022c
दिलीप उवाच 023
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः 023a
तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् 023c
शुक्र उवाच 024
पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् 024a
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् 024c
जमदग्निरुवाच 025
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् 025a
श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् 025c
शिबिरुवाच 026
अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च 026a
तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् 026c
ययातिरुवाच 027
अनृतौ जटी व्रतिन्यां वै भार्यायां सम्प्रजायतु 027a
निराकरोतु वेदांश्च यस्ते हरति पुष्करम् 027c
नहुष उवाच 028
अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः 028a
विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् 028c
अम्बरीष उवाच 029
नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च 029a
ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् 029c
नारद उवाच 030
गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् 030a
गरीयसोऽवजानातु यस्ते हरति पुष्करम् 030c
नाभाग उवाच 031
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु 031a
शुल्केन कन्यां ददतु यस्ते हरति पुष्करम् 031c
कविरुवाच 032
पदा स गां ताडयतु सूर्यं च प्रति मेहतु 032a
शरणागतं च त्यजतु यस्ते हरति पुष्करम् 032c
विश्वामित्र उवाच 033
करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः 033a
ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् 033c
पर्वत उवाच 034
ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु 034a
शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् 034c
भरद्वाज उवाच 035
सर्वपापसमादानं नृशंसे चानृते च यत् 035a
तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् 035c
अष्टक उवाच 036
स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत् 036a
अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम् 036c
गालव उवाच 037
पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत् 037a
दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् 037c
अरुन्धत्युवाच 038
श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः 038a
एका स्वादु समश्नातु या ते हरति पुष्करम् 038c
वालखिल्या ऊचुः 039
एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु 039a
धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् 039c
पशुसख उवाच 040
अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः 040a
परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम् 040c
सुरभ्युवाच 041
बाल्वजेन निदानेन कांस्यं भवतु दोहनम् 041a
दुह्येत परवत्सेन या ते हरति पुष्करम् 041c
भीष्म उवाच 042
ततस्तु तैः शपथैः शप्यमानैर्नानाविधैर्बहुभिः कौरवेन्द्र 042a
सहस्राक्षो देवराट्सम्प्रहृष्टः समीक्ष्य तं कोपनं विप्रमुख्यम् 042c
अथाब्रवीन्मघवा प्रत्ययं स्वं समाभाष्य तमृषिं जातरोषम् 043a
ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये यत्तन्निबोधेह ममाद्य राजन् 043c
शक्र उवाच 044
अध्वर्यवे दुहितरं ददातु च्छन्दोगे वा चरितब्रह्मचर्ये 044a
आथर्वणं वेदमधीत्य विप्रः स्नायीत यः पुष्करमाददाति 044c
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः 045a
ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् 045c
अगस्त्य उवाच 046
आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन 046a
दीयतां पुष्करं मह्यमेष धर्मः सनातनः 046c
इन्द्र उवाच 047
न मया भगवल्ँलोभाद्धृतं पुष्करमद्य वै 047a
धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि 047c
धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः 048a
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः 048c
तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम 049a
अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित 049c
इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् 050a
जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः 050c
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः 051a
पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते 051c
आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि 052a
न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः 052c
न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह 053a
विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् 053c
यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम् 054a
स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम 054c