भीष्म उवाच 001
अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः 001a
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च 001c
अथापश्यन्सुपीनांसपाणिपादमुखोदरम् 002a
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् 002c
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा 003a
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् 003c
वसिष्ठ उवाच 004
नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम् 004a
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः 004c
अत्रिरुवाच 005
नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् 005a
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः 005c
विश्वामित्र उवाच 006
नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः 006a
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः 006c
जमदग्निरुवाच 007
नैतस्येह यथास्माकं भक्तमिन्धनमेव च 007a
सञ्चिन्त्य वार्षिकं किञ्चित्तेन पीवाञ्शुनःसखः 007c
कश्यप उवाच 008
नैतस्येह यथास्माकं चत्वारश्च सहोदराः 008a
देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः 008c
भरद्वाज उवाच 009
नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः 009a
शोको भार्यापवादेन तेन पीवाञ्शुनःसखः 009c
गौतम उवाच 010
नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम् 010a
एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः 010c
भीष्म उवाच 011
अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः 011a
अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् 011c
परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम् 012a
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते 012c
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते 013a
आददानाः समुद्धृत्य मूलानि च फलानि च 013c
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् 014a
शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् 014c
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् 015a
वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् 015c
नानाविधैश्च विहगैर्जलप्रकरसेविभिः 016a
एकद्वारामनादेयां सूपतीर्थामकर्दमाम् 016c
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना 017a
यातुधानीति विख्याता पद्मिनीं तामरक्षत 017c
शुनःसखसहायास्तु बिसार्थं ते महर्षयः 018a
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् 018c
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् 019a
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः 019c
एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम् 020a
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि 020c
यातुधान्युवाच 021
यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथञ्चन 021a
आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः 021c
ऋषय ऊचुः 022
सर्व एव क्षुधार्ताः स्म न चान्यत्किञ्चिदस्ति नः 022a
भवत्याः सम्मते सर्वे गृह्णीमहि बिसान्युत 022c
यातुधान्युवाच 023
समयेन बिसानीतो गृह्णीध्वं कामकारतः 023a
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् 023c
भीष्म उवाच 024
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम् 024a
अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् 024c
अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै 025a
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने 025c
यातुधान्युवाच 026
यथोदाहृतमेतत्ते मयि नाम महामुने 026a
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् 026c
वसिष्ठ उवाच 027
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि 027a
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् 027c
यातुधान्युवाच 028
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 028a
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 028c
कश्यप उवाच 029
कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः 029a
काश्यः काशनिकाशत्वादेतन्मे नाम धारय 029c
यातुधान्युवाच 030
यथोदाहृतमेतत्ते मयि नाम महामुने 030a
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् 030c
भरद्वाज उवाच 031
भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान् 031a
भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने 031c
यातुधान्युवाच 032
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 032a
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 032c
गौतम उवाच 033
गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते 033a
विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे 033c
यातुधान्युवाच 034
यथोदाहृतमेतत्ते मयि नाम महामुने 034a
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 034c
विश्वामित्र उवाच 035
विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा 035a
विश्वामित्रमिति ख्यातं यातुधानि निबोध मे 035c
यातुधान्युवाच 036
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 036a
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 036c
जमदग्निरुवाच 037
जाजमद्यजजा नाम मृजा माह जिजायिषे 037a
जमदग्निरिति ख्यातमतो मां विद्धि शोभने 037c
यातुधान्युवाच 038
यथोदाहृतमेतत्ते मयि नाम महामुने 038a
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 038c
अरुन्धत्युवाच 039
धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् 039a
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् 039c
यातुधान्युवाच 040
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 040a
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 040c
गण्डोवाच 041
गण्डं गण्डं गतवती गण्डगण्डेति सञ्ज्ञिता 041a
गण्डगण्डेव गण्डेति विद्धि मानलसम्भवे 041c
यातुधान्युवाच 042
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 042a
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 042c
पशुसख उवाच 043
सखा सखे यः सख्येयः पशूनां च सखा सदा 043a
गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे 043c
यातुधान्युवाच 044
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 044a
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 044c
शुनःसख उवाच 045
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे 045a
शुनःसखसखायं मां यातुधान्युपधारय 045c
यातुधान्युवाच 046
नाम तेऽव्यक्तमुक्तं वै वाक्यं सन्दिग्धया गिरा 046a
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज 046c
शुनःसख उवाच 047
सकृदुक्तं मया नाम न गृहीतं यदा त्वया 047a
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् 047c
भीष्म उवाच 048
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा 048a
कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह 048c
शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् 049a
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् 049c
ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च 050a
यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः 050c
श्रमेण महता युक्तास्ते बिसानि कलापशः 051a
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा 051c
अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन् 052a
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ 052c
ऋषय ऊचुः 053
केन क्षुधाभिभूतानामस्माकं पापकर्मणा 053a
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् 053c
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः 054a
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन 054c
त उक्त्वा बाढमित्येव सर्व एव शुनःसखम् 055a
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः 055c
अत्रिरुवाच 056
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु 056a
अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः 056c
वसिष्ठ उवाच 057
अनध्यायपरो लोके शुनः स परिकर्षतु 057a
परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः 057c
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु 058a
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः 058c
कश्यप उवाच 059
सर्वत्र सर्वं पणतु न्यासलोपं करोतु च 059a
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः 059c
वृथामांसं समश्नातु वृथादानं करोतु च 060a
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः 060c
भरद्वाज उवाच 061
नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च 061a
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः 061c
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च 062a
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः 062c
जमदग्निरुवाच 063
पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम् 063a
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः 063c
द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान् 064a
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः 064c
गौतम उवाच 065
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु 065a
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः 065c
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः 066a
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः 066c
विश्वामित्र उवाच 067
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः 067a
अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः 067c
अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहङ्कृतः 068a
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः 068c
वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः 069a
अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः 069c
अरुन्धत्युवाच 070
नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः 070a
एका स्वादु समश्नातु बिसस्तैन्यं करोति या 070c
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये 071a
अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या 071c
गण्डोवाच 072
अनृतं भाषतु सदा साधुभिश्च विरुध्यतु 072a
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या 072c
साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह 073a
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या 073c
पशुसख उवाच 074
दास्य एव प्रजायेत सोऽप्रसूतिरकिञ्चनः 074a
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः 074c
शुनःसख उवाच 075
अध्वर्यवे दुहितरं ददातु च्छन्दोगे वा चरितब्रह्मचर्ये 075a
आथर्वणं वेदमधीत्य विप्रः स्नायीत यो वै हरते बिसानि 075c
ऋषय ऊचुः 076
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः 076a
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख 076c
शुनःसख उवाच 077
न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः 077a
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया 077c
मया ह्यन्तर्हितानीह बिसानीमानि पश्यत 078a
परीक्षार्थं भगवतां कृतमेतन्मयानघाः 078c
रक्षणार्थं च सर्वेषां भवतामहमागतः 078e
यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी 079a
वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः 079c
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा 080a
तस्मादस्म्यागतो विप्रा वासवं मां निबोधत 080c
अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः 081a
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः 081c
भीष्म उवाच 082
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरन्दरम् 082a
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् 082c
एवमेते महात्मानो भोगैर्बहुविधैरपि 083a
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः 083c
नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् 083e
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् 084a
एष धर्मः परो राजन्नलोभ इति विश्रुतः 084c
इदं नरः सच्चरितं समवायेषु कीर्तयेत् 085a
सुखभागी च भवति न च दुर्गाण्यवाप्नुते 085c
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा 086a
यशोधर्मार्थभागी च भवति प्रेत्य मानवः 086c