युधिष्ठिर उवाच 001
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च 001a
दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह 001c
भीष्म उवाच 002
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः 002a
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत 003c
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः 004a
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती 004c
सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका 005a
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह 005c
ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् 006a
समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् 006c
अथाभवदनावृष्टिर्महती कुरुनन्दन 007a
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः 007c
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना 008a
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल 008c
तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो 009a
ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे 009c
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः 010a
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत 010c
निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः 011a
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः 011c
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः 012a
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह 012c
वृषादर्भिरुवाच 013
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् 013a
मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः 013c
प्रियो हि मे ब्राह्मणो याचमानो दद्यामहं वोऽश्वतरीसहस्रम् 014a
एकैकशः सवृषाः सम्प्रसूताः सर्वेषां वै शीघ्रगाः श्वेतलोमाः 014c
कुलम्भराननडुहः शतंशतान्धुर्याञ्शुभान्सर्वशोऽहं ददानि 015a
पृथ्वीवाहान्पीवरांश्चैव तावदग्र्या गृष्ट्यो धेनवः सुव्रताश्च 015c
वरान्ग्रामान्व्रीहियवं रसांश्च रत्नं चान्यद्दुर्लभं किं ददानि 016a
मा स्माभक्ष्ये भावमेवं कुरुध्वं पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः 016c
ऋषय ऊचुः 017
राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः 017a
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् 017c
क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् 018a
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः 018c
अह्नापीह तपो जातु ब्राह्मणस्योपजायते 019a
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः 019c
कुशलं सह दानेन राजन्नस्तु सदा तव 020a
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः 020c
अपक्वमेव तन्मांसमभूत्तेषां च धीमताम् 021a
अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः 021c
ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः 022a
प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः 022c
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् 023a
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् 023c
गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् 024a
न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः 024c
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः 024e
इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् 025a
अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना 025c
वसिष्ठ उवाच 026
शतेन निष्कं गणितं सहस्रेण च सम्मितम् 026a
यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् 026c
कश्यप उवाच 027
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 027a
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् 027c
भरद्वाज उवाच 028
उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते 028a
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते 028c
गौतम उवाच 029
न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् 029a
समुद्रकल्पः पुरुषो न कदाचन पूर्यते 029c
विश्वामित्र उवाच 030
कामं कामयमानस्य यदा कामः समृध्यते 030a
अथैनमपरः कामस्तृष्णा विध्यति बाणवत् 030c
जमदग्निरुवाच 031
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् 031a
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् 031c
अरुन्धत्युवाच 032
धर्मार्थं सञ्चयो यो वै द्रव्याणां पक्षसम्मतः 032a
तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात् 032c
गण्डोवाच 033
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः 033a
बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् 033c
पशुसख उवाच 034
यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः 034a
विनयार्थं सुविद्वांसमुपासेयं यथातथम् 034c
ऋषय ऊचुः 035
कुशलं सह दानाय तस्मै यस्य प्रजा इमाः 035a
फलान्युपधियुक्तानि य एवं नः प्रयच्छसि 035c
भीष्म उवाच 036
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते 036a
ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः 036c
मन्त्रिणः ऊचुः 037
उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै 037a
ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव 037c
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह 038a
तेषां सम्प्रतिकर्तुं च सर्वेषामगमद्गृहम् 038c
स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः 039a
जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः 039c
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयङ्करी 040a
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् 040c
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता 041a
वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् 041c
वृषादर्भिरुवाच 042
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च 042a
दासीभर्तुश्च दास्याश्च मनसा नाम धारय 042c
ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय 043a
विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव 043c
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी 044a
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः 044c