युधिष्ठिर उवाच 001
द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते 001a
अन्नं ब्राह्मणकामाय कथमेतत्पितामह 001c
भीष्म उवाच 002
अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः 002a
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर 002c
युधिष्ठिर उवाच 003
यदिदं तप इत्याहुरुपवासं पृथग्जनाः 003a
तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् 003c
भीष्म उवाच 004
मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः 004a
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् 004c
त्यागस्यापि च सम्पत्तिः शिष्यते तप उत्तमम् 005a
सदोपवासी च भवेद्ब्रह्मचारी तथैव च 005c
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् 006a
कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत 006c
अमृताशी सदा च स्यात्पवित्री च सदा भवेत् 007a
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् 007c
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः 008a
अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् 008c
युधिष्ठिर उवाच 009
कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव 009a
विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः 009c
भीष्म उवाच 010
अन्तरा सायमाशं च प्रातराशं तथैव च 010a
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः 010c
भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह 011a
ऋतवादी सदा च स्याद्दानशीलश्च मानवः 011c
अभक्षयन्वृथा मांसममांसाशी भवत्युत 012a
दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन् 012c
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा 013a
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर 013c
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः 014a
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत 014c
देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह 015a
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् 015c
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः 016a
उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप 016c
देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते 017a
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा 017c