भीष्म उवाच 001
तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः 001a
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा 001c
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत 002a
तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः 002c
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत 003a
तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै 003c
अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह 004a
सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः 004c
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः 005a
निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् 005c
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः 006a
स्वयम्भूसदनं यात स वः श्रेयो विधास्यति 006c
ते सोमवचनाद्देवाः पितृभिः सह भारत 007a
मेरुशृङ्गे समासीनं पितामहमुपागमन् 007c
पितर ऊचुः 008
निवापान्नेन भगवन्भृशं पीड्यामहे वयम् 008a
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् 008c
इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् 009a
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति 009c
अग्निरुवाच 010
सहितास्तात भोक्ष्यामो निवापे समुपस्थिते 010a
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः 010c
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन् 011a
एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप 011c
निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ 012a
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत 012c
रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ 012e
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे 013a
प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः 013c
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः 014a
सोमायेति च वक्तव्यं तथा पितृमतेति च 014c
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या 015a
निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजाः 015c
जलं प्रतरमाणश्च कीर्तयेत पितामहान् 016a
नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् 016c
पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः 017a
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् 017c
कल्माषगोयुगेनाथ युक्तेन तरतो जलम् 018a
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः 018c
सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः 018e
मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै 019a
पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः 019c
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा 020a
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः 020c
एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः 020e
एते च पितरो राजन्नेष श्राद्धविधिः परः 021a
प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा 021c
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम् 022a
ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् 022c