युधिष्ठिर उवाच 001
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम् 001a
भृग्वङ्गिरसके काले मुनिना कतरेण वा 001c
कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च 002a
धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह 002c
भीष्म उवाच 003
यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले यदात्मकम् 003a
येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप 003c
स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् 004a
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः 004c
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः 005a
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः 005c
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः 006a
कालधर्मपरीतात्मा निधनं समुपागतः 006c
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा 007a
सन्तापमगमत्तीव्रं पुत्रशोकपरायणः 007c
अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः 008a
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत 008c
तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः 009a
मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी 009c
ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः 010a
यानि तस्यैव भोज्यानि मूलानि च फलानि च 010c
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह 011a
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः 011c
अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान् 012a
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् 012c
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् 013a
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः 013c
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः 014a
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते 014c
कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः 015a
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् 015c
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः 016a
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् 016c
अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम् 017a
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति 017c
ततः सञ्चिन्तयामास वंशकर्तारमात्मनः 018a
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः 018c
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् 019a
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः 019c
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधनः 020a
मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् 020c
सोऽयं स्वयम्भुविहितो धर्मः सङ्कल्पितस्त्वया 021a
ऋते स्वयम्भुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् 021c
आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम् 022a
स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे 022c
कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन 023a
ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः 023c
विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः 024a
तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा 024c
स्तोतव्या चेह पृथिवी निवापस्येह धारिणी 025a
वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च 025c
उदकानयने चैव स्तोतव्यो वरुणो विभुः 026a
ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ 026c
देवास्तु पितरो नाम निर्मिता वै स्वयम्भुवा 027a
ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः 027c
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् 028a
सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयम्भुवा 028c
विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्वमेव ते 029a
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् 029c
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा 030a
ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च 030c
विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च 031a
विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः 031c
सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः 032a
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च 032c
चमूहरः सुवेषश्च व्योमारिः शङ्करो भवः 033a
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् 033c
गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा 034a
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च 034c
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च 035a
जितात्मा मुनिवीर्यश्च दीप्तलोमा भयङ्करः 035c
अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा 036a
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा 036c
स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः 037a
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः 037c
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा 038a
हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा 038c
पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः 039a
कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च 039c
ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत् 040a
कृष्णाजाजी विडश्चैव शीतपाकी तथैव च 040c
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च 040e
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च 041a
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् 041c
निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् 042a
पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः 042c
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते 043a
काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा 043c
सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः 044a
वर्जनीया बुधैरेते निवापे समुपस्थिते 044c
इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा 045a
पितामहसभां दिव्यां जगामात्रिस्तपोधनः 045c