युधिष्ठिर उवाच 001
कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह 001a
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि 001c
भीष्म उवाच 002
ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् 002a
दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम् 002c
देवताः पूजयन्तीह दैवेनैवेह तेजसा 003a
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः 003c
श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः 004a
कुलशीलवयोरूपैर्विद्ययाभिजनेन च 004c
एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः 005a
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु 005c
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः 006a
ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी 006c
अगारदाही गरदः कुण्डाशी सोमविक्रयी 007a
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः 007c
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे 008a
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति 008c
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः 009a
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च 009c
श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च 010a
परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः 010c
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति 010e
एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान् 011a
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः 011c
षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति 012a
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप 012c
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः 013a
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् 013c
असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम् 014a
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् 014c
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन 015a
तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरयेत् 015c
तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः 016a
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः 016c
यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति 017a
तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् 017c
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः 018a
ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् 018c
वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि 019a
पाङ्क्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः 019c
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् 020a
ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः 020c
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः 021a
ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा 021c
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत 021e
अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः 022a
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः 022c
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः 023a
मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः 023c
अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः 024a
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् 024c
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः 024e
इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः 025a
यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः 025c
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् 026a
ये च भाष्यविदः केचिद्ये च व्याकरणे रताः 026c
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च 027a
अधीत्य च यथान्यायं विधिवत्तस्य कारिणः 027c
उपपन्नो गुरुकुले सत्यवादी सहस्रदः 028a
अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च 028c
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत 029a
ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते 029c
क्रोशादर्धतृतीयात्तु पावयेदेक एव हि 030a
ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः 030c
अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् 031a
ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् 031c
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः 032a
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः 032c
तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् 033a
स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् 033c
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च 034a
न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति 034c
यश्च श्राद्धे कुरुते सङ्गतानि न देवयानेन पथा स याति 035a
स वै मुक्तः पिप्पलं बन्धनाद्वा स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः 035c
तस्मान्मित्रं श्राद्धकृन्नाद्रियेत दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि 036a
यं मन्यते नैव शत्रुं न मित्रं तं मध्यस्थं भोजयेद्धव्यकव्ये 036c
यथोषरे बीजमुप्तं न रोहेन्न चास्योप्ता प्राप्नुयाद्बीजभागम् 037a
एवं श्राद्धं भुक्तमनर्हमाणैर्न चेह नामुत्र फलं ददाति 037c
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति 038a
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते 038c
सम्भोजनी नाम पिशाचदक्षिणा सा नैव देवान्न पितॄनुपैति 039a
इहैव सा भ्राम्यति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा 039c
यथाग्नौ शान्ते घृतमाजुहोति तन्नैव देवान्न पितॄनुपैति 040a
तथा दत्तं नर्तने गायने च यां चानृचे दक्षिणामावृणोति 040c
उभौ हिनस्ति न भुनक्ति चैषा या चानृचे दक्षिणा दीयते वै 041a
आघातनी गर्हितैषा पतन्ती तेषां प्रेतान्पातयेद्देवयानात् 041c
ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर 042a
निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः 042c
स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च 043a
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत 043c
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत 044a
तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते वराः 044c
ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत् 045a
ब्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम् 045c
वैखानसानां वचनमृषीणां श्रूयते नृप 046a
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् 046c
प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् 046e
यः सहस्रं सहस्राणां भोजयेदनृचां नरः 047a
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत 047c