भीष्म उवाच 001
यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे 001a
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् 001c
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः 002a
अग्नीनाधाय सापत्यो यजेत विगतज्वरः 002c
अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे 003a
क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् 003c
कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ 004a
पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः 004c
आश्लेषायां ददच्छ्राद्धं वीरान्पुत्रान्प्रजायते 005a
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् 005c
फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् 006a
अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् 006c
चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् 007a
स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति 007c
बहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः 008a
अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् 008c
आदिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन् 009a
नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः 009c
मूले त्वारोग्यमर्च्छेत यशोऽषाढास्वनुत्तमम् 010a
उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् 010c
श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् 011a
श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत्परां गतिम् 011c
राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः 012a
नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् 012c
पूर्वप्रोष्ठपदाः कुर्वन्बहु विन्देदजाविकम् 013a
उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः 013c
बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः 014a
अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुरुत्तमम् 014c
इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत् 015a
अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह 015c