युधिष्ठिर उवाच 001
किंस्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर 001a
किं हविश्चिररात्राय किमानन्त्याय कल्पते 001c
भीष्म उवाच 002
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः 002a
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर 002c
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा 003a
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप 003c
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् 004a
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः 004c
द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह 005a
त्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु 005c
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप 006a
वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु 006c
मासानष्टौ पार्षतेन रौरवेण नवैव तु 007a
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी 007c
मासानेकादश प्रीतिः पितॄणां माहिषेण तु 008a
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते 008c
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह 009a
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी 009c
आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये 010a
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते 010c
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर 011a
सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत 011c
अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम् 012a
मघासु सर्पिषा युक्तं पायसं दक्षिणायने 012c
आजेन वापि लौहेन मघास्वेव यतव्रतः 013a
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् 013c
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् 014a
यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः 014c
आपो मूलं फलं मांसमन्नं वापि पितृक्षये 015a
यत्किञ्चिन्मधुसम्मिश्रं तदानन्त्याय कल्पते 015c