युधिष्ठिर उवाच 001
चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ 001a
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव 001c
वैशम्पायन उवाच 002
युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा 002a
इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे 002c
भीष्म उवाच 003
शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम् 003a
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप 003c
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् 004a
पिशाचकिन्नराणां च पूज्या वै पितरः सदा 004c
पितॄन्पूज्यादितः पश्चाद्देवान्सन्तर्पयन्ति वै 005a
तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा 005c
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते 006a
तच्चामिषेण विधिना विधिः प्रथमकल्पितः 006c
सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः 007a
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान् 007c
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ 008a
तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे 008c
पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः 009a
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः 009c
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः 010a
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे 010c
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप 011a
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः 011c
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप 012a
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् 012c
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु 013a
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः 013c
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप 014a
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि 014c
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते 015a
रजतं बहु चित्रं च सुवर्णं च मनोरमम् 015c
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम् 016a
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे 016c
युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम् 017a
अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात् 017c
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् 018a
श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः 018c
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते 019a
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते 019c