युधिष्ठिर उवाच 001
उक्ताः पितामहेनेह सुवर्णस्य विधानतः 001a
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः 001c
यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम् 002a
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे 002c
उक्तः स देवतानां हि अवध्य इति पार्थिव 003a
न च तस्येह ते मृत्युर्विस्तरेण प्रकीर्तितः 003c
एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह 004a
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे 004c
भीष्म उवाच 005
विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा 005a
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै 005c
न देवतानां काचिद्धि समर्था जातवेदसः 006a
एकापि शक्ता तं गर्भं सन्धारयितुमोजसा 006c
षण्णां तासां ततः प्रीतः पावको गर्भधारणात् 007a
स्वेन तेजोविसर्गेण वीर्येण परमेण च 007c
तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातवेदसः 008a
षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो 008c
ततस्ता वर्धमानस्य कुमारस्य महात्मनः 009a
तेजसाभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे 009c
ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते 010a
समं गर्भं सुषुविरे कृत्तिकास्ता नरर्षभ 010c
ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् 011a
पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः 011c
स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः 012a
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः 012c
ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् 013a
जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः 013c
अभवत्कार्त्तिकेयः स त्रैलोक्ये सचराचरे 014a
स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्गुहोऽभवत् 014c
ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः 015a
रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः 015c
अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ 016a
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः 016c
पृथग्भूतानि चान्यानि यानि देवार्पणानि वै 017a
आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् 017c
ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा 017e
षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् 018a
पीनांसं द्वादशभुजं पावकादित्यवर्चसम् 018c
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः 019a
लेभिरे परमं हर्षं मेनिरे चासुरं हतम् 019c
ततो देवाः प्रियाण्यस्य सर्व एव समाचरन् 020a
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह 020c
सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् 021a
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ 021c
कुक्कुटं चाग्निसङ्काशं प्रददौ वरुणः स्वयम् 022a
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् 022c
गवां माता च गा देवी ददौ शतसहस्रशः 023a
छागमग्निर्गुणोपेतमिला पुष्पफलं बहु 023c
सुधन्वा शकटं चैव रथं चामितकूबरम् 024a
वरुणो वारुणान्दिव्यान्भुजङ्गान्प्रददौ शुभान् 024c
सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः 024e
श्वापदांश्च बहून्घोरांश्छत्राणि विविधानि च 025a
राक्षसासुरसङ्घाश्च येऽनुजग्मुस्तमीश्वरम् 025c
वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः 026a
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् 026c
सेनापत्येन तं देवाः पूजयित्वा गुहालयम् 027a
शशंसुर्विप्रकारं तं तस्मै तारककारितम् 027c
स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः 028a
जघानामोघया शक्त्या दानवं तारकं गुहः 028c
तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे 029a
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः 029c
स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् 030a
ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च 030c
हिरण्यमूर्तिर्भगवानेष एव च पावकिः 031a
सदा कुमारो देवानां सेनापत्यमवाप्तवान् 031c
तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् 032a
सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम् 032c
एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा 033a
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप 033c
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः 034a
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः 034c