वसिष्ठ उवाच 001
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् 001a
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः 001c
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् 002a
ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो 002c
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः 003a
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् 003c
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः 004a
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः 004c
लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः 005a
ओङ्कारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा 005c
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च 006a
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः 006c
जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो 006e
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः 007a
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह 007c
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः 008a
स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि 008c
तस्य शुक्रस्य निष्पन्दात्पांसून्सङ्गृह्य भूमितः 009a
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने 009c
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके 010a
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह 010c
स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः 011a
आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन 011c
ततः सञ्जनयामास भूतग्रामं स वीर्यवान् 012a
ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् 012c
तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम् 013a
सगुणस्तेजसो नित्यं तमस्याकाशमेव च 013c
सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः 014a
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो 014c
पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः 015a
भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् 015c
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् 016a
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः 016c
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् 017a
अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् 017c
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि 017e
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसम्मिताः 018a
वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः 018c
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसम्मतौ 018e
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे 019a
ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् 019c
एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः 020a
ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् 020c
यानि दारूणि ते मासा निर्यासाः पक्षसञ्ज्ञिताः 021a
अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् 021c
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् 022a
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः 022c
अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः 023a
उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः 023c
आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् 024a
सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् 024c
ततोऽब्रवीन्महादेवो वरुणः परमात्मकः 025a
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह 025c
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः 026a
इति जानीत खगमा मम यज्ञफलं हि तत् 026c
अग्निरुवाच 027
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च 027a
ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः 027c
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः 028a
ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् 028c
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह 029a
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् 029c
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै 030a
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च 030c
वयं च भगवन्सर्वे जगच्च सचराचरम् 031a
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः 031c
वरुणश्चेश्वरो देवो लभतां काममीप्सितम् 031e
निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः 032a
जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् 032c
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत् 033a
पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् 033c
तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् 034a
आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः 034c
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ 034e
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः 035a
सर्वं सन्तानमेतेषामिदमित्युपधारय 035c
भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः 036a
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च 036c
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते 037a
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि 037c
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः 038a
बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च 038c
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः 039a
एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः 039c
ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः 040a
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः 040c
कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा 041a
भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् 041c
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् 042a
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः 042c
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः 043a
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् 043c
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः 044a
कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ 044c
जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः 045a
तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः 045c
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः 046a
इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः 046c
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः 047a
त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् 047c
तथैव वंशकर्तारस्तव तेजोविवर्धनाः 048a
भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा 048c
देवपक्षधराः सौम्याः प्राजापत्या महर्षयः 049a
आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा 049c
सर्वे हि वयमेते च तवैव प्रसवः प्रभो 050a
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह 050c
मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः 051a
अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह 051c
ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः 052a
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा 052c
एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः 053a
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् 053c
अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः 054a
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा 054c
अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् 055a
जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् 055c
कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम् 056a
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते 056c
तस्मादग्निपराः सर्वा देवता इति शुश्रुम 057a
ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् 057c
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः 058a
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् 058c
तस्य चातमसो लोका गच्छतः परमां गतिम् 059a
स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव 059c
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् 060a
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः 060c
ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते 061a
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् 061c
ददाति पश्चिमां सन्ध्यां यः सुवर्णं धृतव्रतः 062a
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः 062c
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् 063a
इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते 063c
ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा 064a
अनावृतगतिश्चैव कामचारी भवत्युत 064c
न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत् 065a
सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् 065c
यस्तु सञ्जनयित्वाग्निमादित्योदयनं प्रति 066a
दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते 066c
अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम् 067a
यथेष्टगुणसम्पन्नं प्रवर्तकमिति स्मृतम् 067c
भीष्म उवाच 068
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् 068a
ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् 068c
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते 069a
प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् 069c
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु 070a
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि 070c