देवा ऊचुः 001
असुरस्तारको नाम त्वया दत्तवरः प्रभो 001a
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् 001c
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह 002a
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः 002c
ब्रह्मोवाच 003
समोऽहं सर्वभूतानामधर्मं नेह रोचये 003a
हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः 003c
वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः 004a
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः 004c
देवा ऊचुः 005
वरदानाद्भगवतो दैतेयो बलगर्वितः 005a
देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् 005c
स हि नैव स्म देवानां नासुराणां न रक्षसाम् 006a
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह 006c
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते 007a
न भविष्यति वोऽपत्यमिति सर्वजगत्पते 007c
ब्रह्मोवाच 008
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः 008a
स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् 008c
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् 009a
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः 009c
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति 010a
यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः 010c
सनातनो हि सङ्कल्पः काम इत्यभिधीयते 011a
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् 011c
तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् 012a
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति 012c
स तु नावाप तं शापं नष्टः स हुतभुक्तदा 013a
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः 013c
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम् 014a
तारकस्य वधोपायः कथितो वै मयानघाः 014c
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै 015a
बलान्यतिबलं प्राप्य नबलानि भवन्ति वै 015c
हन्यादवध्यान्वरदानपि चैव तपस्विनः 016a
सङ्कल्पाभिरुचिः कामः सनातनतमोऽनलः 016c
जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः 017a
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः 017c
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः 018a
स वो मनोगतं कामं देवः सम्पादयिष्यति 018c
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः 019a
जग्मुः संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम् 019c
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह 020a
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः 020c
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः 021a
लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह 021c
नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम् 021e
ततः सञ्जातसन्त्रासानग्नेर्दर्शनलालसान् 022a
जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः 022c
उवाच देवान्मण्डूको रसातलतलोत्थितः 022e
रसातलतले देवा वसत्यग्निरिति प्रभो 023a
सन्तापादिह सम्प्राप्तः पावकप्रभवादहम् 023c
स संसुप्तो जले देवा भगवान्हव्यवाहनः 024a
अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम् 024c
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः 025a
तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना 025c
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः 026a
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् 026c
हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम् 027a
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै 027c
तं स संयुज्य शापेन मण्डूकं पावको ययौ 028a
अन्यत्र वासाय विभुर्न च देवानदर्शयत् 028c
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह 029a
यत्तच्छृणु महाबाहो गदतो मम सर्वशः 029c
देवा ऊचुः 030
अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः 030a
सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ 030c
बिलवासगतांश्चैव निरादानानचेतसः 031a
गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति 031c
तमोगतायामपि च निशायां विचरिष्यथ 031e
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् 032a
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् 032c
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः 033a
अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह 033c
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः 034a
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह 034c
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः 035a
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया 035c
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो 036a
देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः 036c
देवा ऊचुः 037
प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ 037a
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम् 037c
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः 037e
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा 038a
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् 038c
शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि 039a
जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा 039c
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः 040a
भविता न त्वमत्यन्तं शकुने नष्टवागिति 040c
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति 041a
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् 041c
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः 042a
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि 042c
ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते 043a
उत्पादने तथोपायमनुजग्मुश्च मानवाः 043c
आपो रसातले यास्तु संसृष्टाश्चित्रभानुना 044a
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव 044c
पावकेनाधिशयता सन्तप्तास्तस्य तेजसा 044e
ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा 045a
किमागमनमित्येवं तानपृच्छत पावकः 045c
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः 046a
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति 046c
कृते च तस्मिन्भविता तवापि सुमहान्गुणः 046e
अग्निरुवाच 047
ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः 047a
भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा 047c
देवा ऊचुः 048
असुरस्तारको नाम ब्रह्मणो वरदर्पितः 048a
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् 048c
इमान्देवगणांस्तात प्रजापतिगणांस्तथा 049a
ऋषींश्चापि महाभागान्परित्रायस्व पावक 049c
अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो 050a
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन 050c
शप्तानां नो महादेव्या नान्यदस्ति परायणम् 051a
अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः 051c
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक् 052a
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति 052c
तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा 053a
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा 053c
तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना 054a
सन्तापमगमत्तीव्रं सा सोढुं न शशाक ह 054c
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते 055a
गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत् 055c
अबुद्धापतितेनाथ नादेन विपुलेन सा 056a
वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना 056c
विसञ्ज्ञा नाशकद्गर्भं सन्धारयितुमात्मना 056e
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी 057a
उवाच वचनं विप्र तदा गर्भबलोद्धता 057c
न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे 057e
विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् 058a
विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ 058c
धारणे नास्य शक्ताहं गर्भस्य तपतां वर 059a
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन 059c
न चेतसोऽस्ति संस्पर्शो मम देव विभावसो 060a
आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते 060c
यदत्र गुणसम्पन्नमितरं वा हुताशन 061a
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ 061c
तामुवाच ततो वह्निर्धार्यतां धार्यतामयम् 062a
गर्भो मत्तेजसा युक्तो महागुणफलोदयः 062c
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा 063a
न हि ते किञ्चिदप्राप्यं मद्रेतोधारणादृते 063c
सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा 064a
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा 064c
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता 065a
नाशकत्तं तदा गर्भं सन्धारयितुमोजसा 065c
सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम् 066a
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह 066c
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः 066e
कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते 067a
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे 067c
गङ्गोवाच 068
जातरूपः स गर्भो वै तेजसा त्वमिवानल 068a
सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् 068c
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः 069a
गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर 069c
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः 070a
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा 070c
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत 070e
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च 071a
व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम् 071c
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन 072a
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः 072c
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत 072e
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् 073a
जगामेष्टं ततो देशं तदा भार्गवनन्दन 073c
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते 074a
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा 074c
पृथिवी च तदा देवी ख्याता वसुमतीति वै 074e
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः 075a
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः 075c
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् 076a
जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः 076c
ततः स कार्त्तिकेयत्वमवाप परमद्युतिः 077a
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् 077c
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः 078a
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् 078c
ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम् 079a
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः 079c
पवित्राणां पवित्रं हि कनकं द्विजसत्तम 080a
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् 080c
रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम् 081a
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् 081c