युधिष्ठिर उवाच 001
उक्तं पितामहेनेदं गवां दानमनुत्तमम् 001a
विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम् 001c
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः 002a
परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः 002c
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः 002e
पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुन्धराम् 003a
पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन 003c
एवमेव गवामुक्तं प्रदानं ते नृगेण ह 004a
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् 004c
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा 005a
सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् 005c
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै 006a
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् 006c
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् 007a
किं दानं किं फलं चैव कस्माच्च परमुच्यते 007c
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः 008a
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते 008c
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् 009a
परमं दक्षिणार्थे च तद्ब्रवीहि पितामह 009c
भीष्म उवाच 010
शृणु राजन्नवहितो बहुकारणविस्तरम् 010a
जातरूपसमुत्पत्तिमनुभूतं च यन्मया 010c
पिता मम महातेजाः शन्तनुर्निधनं गतः 011a
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् 011c
तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् 012a
माता मे जाह्नवी चैव साहाय्यमकरोत्तदा 012c
ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन् 013a
तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् 013c
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः 014a
दातुं निर्वपणं सम्यग्यथावदहमारभम् 014c
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः 015a
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते 015c
तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम् 016a
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ 016c
ततो मे पुनरेवासीत्सञ्ज्ञा सञ्चिन्त्य शास्त्रतः 017a
नायं वेदेषु विहितो विधिर्हस्त इति प्रभो 017c
पिण्डो देयो नरेणेह ततो मतिरभून्मम 017e
साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित् 018a
गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति 018c
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् 019a
शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन् 019c
ततो दर्भेषु तत्सर्वमददं भरतर्षभ 020a
शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ 020c
ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप 021a
ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा 021c
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ 022a
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः 022c
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव 023a
आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः 023c
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः 024a
प्रमाणमुपनीता वै स्थितिश्च न विचालिता 024c
तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ 025a
किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति 025c
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः 026a
पाविता वै भविष्यन्ति पावनं परमं हि तत् 026c
दश पूर्वान्दश परांस्तथा सन्तारयन्ति ते 027a
सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् 027c
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते 028a
सुवर्णदानेऽकरवं मतिं भरतसत्तम 028c
इतिहासमिमं चापि शृणु राजन्पुरातनम् 029a
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च 029c
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै 030a
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा 030c
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः 031a
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् 031c
वाजिमेधं महाराज सर्वकामसमन्वितम् 032a
पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् 032c
विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै 033a
नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत 033c
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता 034a
पप्रच्छागमसम्पन्नानृषीन्देवांश्च भार्गवः 034c
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् 035a
तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् 035c
वसिष्ठ उवाच 036
देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत 036a
अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् 036c
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः 037a
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः 037c
भूय एव च माहात्म्यं सुवर्णस्य निबोध मे 038a
गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर 038c
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन 039a
प्रजापतेः कथयतो मनोः स्वायम्भुवस्य वै 039c
शूलपाणेर्भगवतो रुद्रस्य च महात्मनः 040a
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह 040c
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन 041a
समागमे भगवतो देव्या सह महात्मनः 041c
ततः सर्वे समुद्विग्ना भगवन्तमुपागमन् 041e
ते महादेवमासीनं देवीं च वरदामुमाम् 042a
प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह 042c
अयं समागमो देव देव्या सह तवानघ 043a
तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः 043c
अमोघतेजास्त्वं देव देवी चेयमुमा तथा 043e
अपत्यं युवयोर्देव बलवद्भविता प्रभो 044a
तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति 044c
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन 045a
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया 045c
अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम् 045e
इति तेषां कथयतां भगवान्गोवृषध्वजः 046a
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत 046c
इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः 047a
ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः 047c
रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते 048a
देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः 048c
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः 049a
तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ 049c
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै 050a
तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति 050c
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह 051a
देवा देव्यास्तथा शापादनपत्यास्तदाभवन् 051c
रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा 052a
प्रस्कन्नं तु ततस्तस्मात्किञ्चित्तत्रापतद्भुवि 052c
तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् 053a
तेजस्तेजसि सम्पृक्तमेकयोनित्वमागतम् 053c
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः 054a
असुरस्तारको नाम तेन सन्तापिता भृशम् 054c
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि 055a
साध्याश्च सर्वे सन्त्रस्ता दैतेयस्य पराक्रमात् 055c
स्थानानि देवतानां हि विमानानि पुराणि च 056a
ऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः 056c
ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह 057a
प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम् 057c