भीष्म उवाच 001
ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये 001a
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर 001c
ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते 002a
तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते 002c
दानानामपि सर्वेषां गवां दानं प्रशस्यते 003a
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् 003c
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह 004a
पयो दधि घृतं यासां सर्वपापप्रमोचनम् 004c
गावस्तेजः परं प्रोक्तमिह लोके परत्र च 005a
न गोभ्यः परमं किञ्चित्पवित्रं पुरुषर्षभ 005c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 006a
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर 006c
पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे 007a
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः 007c
अथर्षयः सगन्धर्वाः किन्नरोरगराक्षसाः 008a
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा 008c
पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् 008e
नारदः पर्वतश्चैव विश्वावसुहहाहुहू 009a
दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् 009c
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा 010a
आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् 010c
तस्मिन्देवसमावाये सर्वभूतसमागमे 011a
दिव्यवादित्रसङ्घुष्टे दिव्यस्त्रीचारणावृते 011c
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च 011e
देवानां भगवन्कस्माल्लोकेशानां पितामह 012a
उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् 012c
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर 013a
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् 013c
ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् 014a
अवज्ञातास्त्वया नित्यं गावो बलनिसूदन 014c
तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो 015a
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ 015c
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव 016a
एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथञ्चन 016c
धारयन्ति प्रजाश्चैव पयसा हविषा तथा 017a
एतासां तनयाश्चापि कृषियोगमुपासते 017c
जनयन्ति च धान्यानि बीजानि विविधानि च 018a
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः 018c
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप 019a
वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः 019c
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा 020a
वासवाकूटवाहिन्यः कर्मणा सुकृतेन च 020c
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि 020e
एतत्ते कारणं शक्र निवासकृतमद्य वै 021a
गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो 021c
एता हि वरदत्ताश्च वरदाश्चैव वासव 022a
सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः 022c
यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम 023a
तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन 023c
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु 024a
त्रील्ँलोकाननुशासत्सु विष्णौ गर्भत्वमागते 024c
अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम् 025a
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा 025c
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः 026a
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः 026c
अतप्यत तपो घोरं हृष्टा धर्मपरायणा 027a
कैलासशिखरे रम्ये देवगन्धर्वसेविते 027c
व्यतिष्ठदेकपादेन परमं योगमास्थिता 028a
दश वर्षसहस्राणि दश वर्षशतानि च 028c
सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः 029a
तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् 029c
अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् 030a
किमर्थं तप्यते देवि तपो घोरमनिन्दिते 030c
प्रीतस्तेऽहं महाभागे तपसानेन शोभने 031a
वरयस्व वरं देवि दातास्मीति पुरन्दर 031c
सुरभ्युवाच 032
वरेण भगवन्मह्यं कृतं लोकपितामह 032a
एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ 032c
ब्रह्मोवाच 033
तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर 033a
प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते 033c
अलोभकाम्यया देवि तपसा च शुभेन ते 034a
प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते 034c
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि 035a
मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति 035c
मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव 036a
निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते 036c
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः 037a
यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे 037c
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः 038a
न तत्र क्रमते मृत्युर्न जरा न च पावकः 038c
न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव 038e
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च 039a
विमानानि च युक्तानि कामगानि च वासव 039c
व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् 040a
तपसा महता चैव सुकृतेन च कर्मणा 040c
शक्यः समासादयितुं गोलोकः पुष्करेक्षण 040e
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते 041a
न ते परिभवः कार्यो गवामरिनिसूदन 041c
भीष्म उवाच 042
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा 042a
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर 042c
एतत्ते सर्वमाख्यातं पावनं च महाद्युते 043a
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् 043c
कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् 043e
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः 044a
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह 044c
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति 044e
गोषु भक्तश्च लभते यद्यदिच्छति मानवः 045a
स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः 045c
पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात् 046a
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् 046c
विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् 047a
न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत 047c