युधिष्ठिर उवाच 001
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् 001a
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
गोभिर्नृपेह संवादं श्रिया भरतसत्तम 002c
श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह 003a
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् 003c
गाव ऊचुः 004
कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि 004a
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा 004c
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि 005a
तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः 005c
श्रीरुवाच 006
लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता 006a
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः 006c
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च 007a
मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा 007c
यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः 008a
धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः 008c
एवम्प्रभावां मां गावो विजानीत सुखप्रदाम् 009a
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा 009c
आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः 009e
गाव ऊचुः 010
अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह 010a
न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते 010c
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै 011a
यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया 011c
श्रीरुवाच 012
किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ 012a
न मां सम्प्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम् 012c
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः 013a
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः 013c
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः 014a
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 014c
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह 015a
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे 015c
गाव ऊचुः 016
नावमन्यामहे देवि न त्वां परिभवामहे 016a
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे 016c
बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि 017a
वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे 017c
श्रीरुवाच 018
अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः 018a
प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति 018c
महाभागा भवत्यो वै शरण्याः शरणागताम् 019a
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् 019c
माननां त्वहमिच्छामि भवत्यः सततं शुभाः 019e
अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते 020a
न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः 020c
पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत 021a
वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ 021c
भीष्म उवाच 022
एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः 022a
सम्मन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप 022c
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि 023a
शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे 023c
श्रीरुवाच 024
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः 024a
एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः 024c
भीष्म उवाच 025
एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत 025a
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत 025c
एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् 026a
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम 026c