युधिष्ठिर उवाच 001
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् 001a
पावनं परमं चैव तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् 002a
धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा 002c
न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम 003a
एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः 003c
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै 004a
दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः 004c
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा 005a
गावो ददन्तः सततं सहस्रशतसम्मिताः 005c
गताः परमकं स्थानं देवैरपि सुदुर्लभम् 005e
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ 006a
ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः 007a
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः 007c
पितरं परिपप्रच्छ दृष्टलोकपरावरम् 007e
को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते 008a
किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः 008c
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो 009a
किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः 009c
दानानामुत्तमं किं च किं च सत्रमतः परम् 010a
पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ 010c
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् 011a
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ 011c
व्यास उवाच 012
गावः प्रतिष्ठा भूतानां तथा गावः परायणम् 012a
गावः पुण्याः पवित्राश्च पावनं धर्म एव च 012c
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः 013a
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् 013c
ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह 014a
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः 014c
तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम् 015a
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक 015c
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः 016a
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः 016c
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते 016e
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः 017a
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते 017c
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ 017e
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः 018a
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम 018c
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका 019a
सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा 019c
रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः 020a
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः 020c
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः 021a
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः 021c
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः 022a
सन्तानकवनैः फुल्लैर्वृक्षैश्च समलङ्कृताः 022c
निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः 023a
उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः 023c
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः 024a
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः 024c
सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः 025a
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः 025c
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः 026a
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ 026c
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर 027a
सर्वकामसमृद्धार्था निःशोका गतमन्यवः 027c
विमानेषु विचित्रेषु रमणीयेषु भारत 028a
मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः 028c
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः 029a
एताल्ँलोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर 029c
यासामधिपतिः पूषा मारुतो बलवान्बली 030a
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः 030c
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः 031a
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः 031c
गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः 032a
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् 032c
न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः 033a
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् 033c
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते 033e
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् 034a
यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् 034c
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् 035a
घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते 035c
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः 036a
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् 036c
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् 036e
निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः 037a
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति 037c
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् 038a
देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः 038c
गावः पवित्राः पुण्याश्च पावनं परमं महत् 039a
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते 039c
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् 040a
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः 040c
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि 041a
विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः 041c
अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसम्मिताम् 042a
त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् 042c
पुत्रकामश्च लभते पुत्रं धनमथापि च 043a
पतिकामा च भर्तारं सर्वकामांश्च मानवः 043c
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः 043e
एवमेता महाभागा यज्ञियाः सर्वकामदाः 044a
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् 044c
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना 045a
पूजयामास गा नित्यं तस्मात्त्वमपि पूजय 045c