वसिष्ठ उवाच 001
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः 001a
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे 001c
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् 002a
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् 002c
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च 003a
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् 003c
इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा 004a
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते 004c
प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा 005a
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः 005c
नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः 006a
वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः 006c
गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि 007a
परामृद्धिमवाप्याथ स गोलोके महीयते 007c
दश चोभयतः प्रेत्य मातापित्रोः पितामहान् 008a
दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः 008c
धेन्वाः प्रमाणेन समप्रमाणां धेनुं तिलानामपि च प्रदाय 009a
पानीयदाता च यमस्य लोके न यातनां काञ्चिदुपैति तत्र 009c
पवित्रमग्र्यं जगतः प्रतिष्ठा दिवौकसां मातरोऽथाप्रमेयाः 010a
अन्वालभेद्दक्षिणतो व्रजेच्च दद्याच्च पात्रे प्रसमीक्ष्य कालम् 010c
धेनुं सवत्सां कपिलां भूरिशृङ्गां कांस्योपदोहां वसनोत्तरीयाम् 011a
प्रदाय तां गाहति दुर्विगाह्यां याम्यां सभां वीतभयो मनुष्यः 011c
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः 012a
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् 012c
नातः पुण्यतरं दानं नातः पुण्यतरं फलम् 013a
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति 013c
त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा 014a
यज्ञं वहन्ति सम्भूय किमस्त्यभ्यधिकं ततः 014c
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् 015a
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् 015c
गुणवचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते 016a
न हि परमिह दानमस्ति गोभ्यो भवन्ति न चापि परायणं तथान्यत् 016c
भीष्म उवाच 017
परमिदमिति भूमिपो विचिन्त्य प्रवरमृषेर्वचनं ततो महात्मा 017a
व्यसृजत नियतात्मवान्द्विजेभ्यः सुबहु च गोधनमाप्तवांश्च लोकान् 017c