वसिष्ठ उवाच 001
शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् 001a
गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति 001c
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः 002a
भवेम न च लिप्येम दोषेणेति परन्तप 002c
स एव चेतसा तेन हतो लिप्येत सर्वदा 003a
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः 003c
तथा सर्वाणि भूतानि स्थावराणि चराणि च 004a
प्रदातारश्च गोलोकान्गच्छेयुरिति मानद 004c
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः 005a
एवं भवत्विति विभुर्लोकांस्तारयतेति च 005c
उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः 006a
तपसोऽन्ते महाराज गावो लोकपरायणाः 006c
तस्माद्गावो महाभागाः पवित्रं परमुच्यते 007a
तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि 007c
समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् 008a
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते 008c
रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् 009a
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते 009c
समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् 010a
सुव्रतां वस्त्रसंवीतां सोमलोके महीयते 010c
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् 011a
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते 011c
समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् 012a
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते 012c
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् 013a
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते 013c
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् 014a
प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते 014c
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् 015a
प्रदाय वस्त्रसंवीतां वायुलोके महीयते 015c
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् 016a
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते 016c
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् 017a
प्रदाय वस्त्रसंवीतां पितृलोके महीयते 017c
सवत्सां पीवरीं दत्त्वा शितिकण्ठामलङ्कृताम् 018a
वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते 018c
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् 019a
सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते 019c
पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् 020a
प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते 020c
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम् 021a
प्रदाय मरुतां लोकानजरान्प्रतिपद्यते 021c
वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् 022a
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः 022c
शितिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम् 023a
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते 023c
गोप्रदानरतो याति भित्त्वा जलदसञ्चयान् 024a
विमानेनार्कवर्णेन दिवि राजन्विराजता 024c
तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः 025a
रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् 025c
वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः 026a
हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते 026c
यावन्ति लोमानि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः 027a
स्वर्गाच्च्युतश्चापि ततो नृलोके कुले समुत्पत्स्यति गोमिनां सः 027c