भीष्म उवाच 001
एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् 001a
इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः 001c
सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् 002a
पुरोहितमिदं प्रष्टुमभिवाद्योपचक्रमे 002c
सौदास उवाच 003
त्रैलोक्ये भगवन्किंस्वित्पवित्रं कथ्यतेऽनघ 003a
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् 003c
भीष्म उवाच 004
तस्मै प्रोवाच वचनं प्रणताय हितं तदा 004a
गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः 004c
गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः 005a
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् 005c
गावो भूतं भविष्यच्च गावः पुष्टिः सनातनी 006a
गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति 006c
अन्नं हि सततं गावो देवानां परमं हविः 006e
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ 007a
गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः 007c
सायं प्रातश्च सततं होमकाले महामते 008a
गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ 008c
कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च 009a
तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो 009c
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती 010a
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते 010c
अनाहिताग्निः शतगुरयज्वा च सहस्रगुः 011a
समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः 011c
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् 012a
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते 012c
युवानमिन्द्रियोपेतं शतेन सह यूथपम् 013a
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् 013c
वृषभं ये प्रयच्छन्ति श्रोत्रियाय परन्तप 014a
ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः 014c
नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत् 015a
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् 015c
गवां मूत्रपुरीषस्य नोद्विजेत कदाचन 016a
न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते 016c
गाश्च सङ्कीर्तयेन्नित्यं नावमन्येत गास्तथा 017a
अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत् 017c
गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् 018a
श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् 018c
सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम् 019a
वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते 019c
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् 020a
घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते 020c
गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः 021a
रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते 021c
गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः 022a
सुरभ्यः सौरभेयाश्च सरितः सागरं यथा 022c
गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा 023a
गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् 023c
एवं रात्रौ दिवा चैव समेषु विषमेषु च 024a
महाभयेषु च नरः कीर्तयन्मुच्यते भयात् 024c