वैशम्पायन उवाच 001
ततो युधिष्ठिरो राजा भूयः शान्तनवं नृप 001a
गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः 001c
युधिष्ठिर उवाच 002
गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत 002a
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् 002c
इत्युक्तो धर्मराजेन तदा शान्तनवो नृप 003a
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् 003c
भीष्म उवाच 004
वत्सलां गुणसम्पन्नां तरुणीं वस्त्रसंवृताम् 004a
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते 004c
असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति 005a
पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् 005c
जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् 006a
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् 006c
दुष्टा रुष्टा व्याधिता दुर्बला वा न दातव्या याश्च मूल्यैरदत्तैः 007a
क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्यावीर्याश्चाफलाश्चैव लोकाः 007c
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः 008a
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा 008c
युधिष्ठिर उवाच 009
कस्मात्समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् 009a
विशेषमिच्छामि महानुभाव श्रोतुं समर्थो हि भवान्प्रवक्तुम् 009c
भीष्म उवाच 010
वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे 010a
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा 010c
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा 011a
असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया 011c
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः 012a
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो 012c
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः 013a
ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः 013c
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः 014a
सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः 014c
एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया 015a
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् 015c
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः 016a
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा 016c
स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् 017a
ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् 017c
सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः 018a
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः 018c
तासाममृतवर्णानां क्षरन्तीनां समन्ततः 019a
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः 019c
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः 020a
शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः 020c
ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव 020e
तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते 021a
नानावर्णत्वमनयन्मेघानिव दिवाकरः 021c
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः 022a
यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् 022c
अथ क्रुद्धं महादेवं प्रजापतिरभाषत 023a
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् 023c
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः 024a
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः 024c
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः 025a
नामृतेनामृतं पीतं वत्सपीता न वत्सला 025c
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च 026a
आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् 026c
वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः 027a
प्रसादयामास मनस्तेन रुद्रस्य भारत 027c
प्रीतश्चापि महादेवश्चकार वृषभं तदा 028a
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः 028c
ततो देवैर्महादेवस्तदा पशुपतिः कृतः 029a
ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते 029c
एवमव्यग्रवर्णानां कपिलानां महौजसाम् 030a
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः 030c
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता रुद्रोपेताः सोमविष्यन्दभूताः 031a
सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात् 031c
इमं गवां प्रभवविधानमुत्तमं पठन्सदा शुचिरतिमङ्गलप्रियः 032a
विमुच्यते कलिकलुषेण मानवः प्रियं सुतान्पशुधनमाप्नुयात्तथा 032c
हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य पुष्टिम् 033a
एतान्सर्वान्गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव 033c
वैशम्पायन उवाच 034
पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः 034a
सौवर्णकांस्योपदुहास्ततो गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः 034c
तथैव तेभ्योऽभिददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव 035a
यज्ञान्समुद्दिश्य च दक्षिणार्थे लोकान्विजेतुं परमां च कीर्तिम् 035c