युधिष्ठिर उवाच 001
विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः 001a
येन ताञ्शाश्वताल्ँलोकानखिलानश्नुवीमहि 001c
भीष्म उवाच 002
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप 002a
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् 002c
सतामर्थे सम्यगुत्पादितो यः स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः 003a
तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं गवां दाने शृणु राजन्विधिं मे 003c
पुरा गोषूपनीतासु गोषु सन्दिग्धदर्शिना 004a
मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत 004c
द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च 005a
प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः 005c
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च 006a
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् 006c
गौर्मे माता गोवृषभः पिता मे दिवं शर्म जगती मे प्रतिष्ठा 007a
प्रपद्यैवं शर्वरीमुष्य गोषु मुनिर्वाणीमुत्सृजेद्गोप्रदाने 007c
स तामेकां निशां गोभिः समसख्यः समव्रतः 008a
ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते 008c
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने 009a
त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः 009c
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो गर्भोऽमृतस्य जगतश्च प्रतिष्ठा 010a
क्षितौ राधःप्रभवः शश्वदेव प्राजापत्याः सर्वमित्यर्थवादः 010c
गावो ममैनः प्रणुदन्तु सौर्यास्तथा सौम्याः स्वर्गयानाय सन्तु 011a
आम्नाता मे ददतीराश्रयं तु तथानुक्ताः सन्तु सर्वाशिषो मे 011c
शेषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यः श्रेयसि सम्प्रवृत्ताः 012a
यूयं नित्यं पुण्यकर्मोपवाह्या दिशध्वं मे गतिमिष्टां प्रपन्नाः 012c
या वै यूयं सोऽहमद्यैकभावो युष्मान्दत्त्वा चाहमात्मप्रदाता 013a
मनश्च्युता मनएवोपपन्नाः सन्धुक्षध्वं सौम्यरूपोग्ररूपाः 013c
एवं तस्याग्रे पूर्वमर्धं वदेत गवां दाता विधिवत्पूर्वदृष्टम् 014a
प्रतिब्रूयाच्छेषमर्धं द्विजातिः प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः 014c
गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः 015a
ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् 015c
नाम सङ्कीर्तयेत्तस्या यथासङ्ख्योत्तरं स वै 016a
फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः 016c
एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम् 017a
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे 017c
गोदः शीली निर्भयश्चार्घदाता न स्याद्दुःखी वसुदाता च कामी 018a
ऊधस्योढा भारत यश्च विद्वान्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः 018c
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं निशां चैकां संवसेतेह ताभिः 019a
काम्याष्टम्यां वर्तितव्यं त्रिरात्रं रसैर्वा गोः शकृता प्रस्नवैर्वा 019c
वेदव्रती स्याद्वृषभप्रदाता वेदावाप्तिर्गोयुगस्य प्रदाने 020a
तथा गवां विधिमासाद्य यज्वा लोकानग्र्यान्विन्दते नाविधिज्ञः 020c
कामान्सर्वान्पार्थिवानेकसंस्थान्यो वै दद्यात्कामदुघां च धेनुम् 021a
सम्यक्ताः स्युर्हव्यकव्यौघवत्यस्तासामुक्ष्णां ज्यायसां सम्प्रदानम् 021c
न चाशिष्यायाव्रतायोपकुर्यान्नाश्रद्दधानाय न वक्रबुद्धये 022a
गुह्यो ह्ययं सर्वलोकस्य धर्मो नेमं धर्मं यत्र तत्र प्रजल्पेत् 022c
सन्ति लोके श्रद्दधाना मनुष्याः सन्ति क्षुद्रा राक्षसा मानुषेषु 023a
येषां दानं दीयमानं ह्यनिष्टं नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः 023c
बार्हस्पत्यं वाक्यमेतन्निशम्य ये राजानो गोप्रदानानि कृत्वा 024a
लोकान्प्राप्ताः पुण्यशीलाः सुवृत्तास्तान्मे राजन्कीर्त्यमानान्निबोध 024c
उशीनरो विष्वगश्वो नृगश्च भगीरथो विश्रुतो यौवनाश्वः 025a
मान्धाता वै मुचुकुन्दश्च राजा भूरिद्युम्नो नैषधः सोमकश्च 025c
पुरूरवा भरतश्चक्रवर्ती यस्यान्वये भारताः सर्व एव 026a
तथा वीरो दाशरथिश्च रामो ये चाप्यन्ये विश्रुताः कीर्तिमन्तः 026c
तथा राजा पृथुकर्मा दिलीपो दिवं प्राप्तो गोप्रदाने विधिज्ञः 027a
यज्ञैर्दानैस्तपसा राजधर्मैर्मान्धाताभूद्गोप्रदानैश्च युक्तः 027c
तस्मात्पार्थ त्वमपीमां मयोक्तां बार्हस्पतीं भारतीं धारयस्व 028a
द्विजाग्र्येभ्यः सम्प्रयच्छ प्रतीतो गाः पुण्या वै प्राप्य राज्यं कुरूणाम् 028c
वैशम्पायन उवाच 029
तथा सर्वं कृतवान्धर्मराजो भीष्मेणोक्तो विधिवद्गोप्रदाने 029a
स मान्धातुर्देवदेवोपदिष्टं सम्यग्धर्मं धारयामास राजा 029c
इति नृप सततं गवां प्रदाने यवशकलान्सह गोमयैः पिबानः 030a
क्षितितलशयनः शिखी यतात्मा वृष इव राजवृषस्तदा बभूव 030c
स नृपतिरभवत्सदैव ताभ्यः प्रयतमना ह्यभिसंस्तुवंश्च गा वै 031a
नृपधुरि च न गामयुङ्क्त भूयस्तुरगवरैरगमच्च यत्र तत्र 031c