युधिष्ठिर उवाच 001
विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो 001a
प्रवक्ष्यामि तु सन्देहं तन्मे ब्रूहि पितामह 001c
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते 002a
नियमानां फलं किं च स्वधीतस्य च किं फलम् 002c
दमस्येह फलं किं च वेदानां धारणे च किम् 003a
अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् 003c
अप्रतिग्राहके किं च फलं लोके पितामह 004a
तस्य किं च फलं दृष्टं श्रुतं यः सम्प्रयच्छति 004c
स्वकर्मनिरतानां च शूराणां चापि किं फलम् 005a
सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् 005c
पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा 006a
आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने 006c
एतत्सर्वमशेषेण पितामह यथातथम् 007a
वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे 007c
भीष्म उवाच 008
यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते 008a
अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः 008c
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते 009a
नियमानां क्रतूनां च त्वयावाप्तमिदं फलम् 009c
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च 010a
इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते 010c
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे 011a
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः 011c
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः 012a
प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः 012c
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव 013a
स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च 013c
दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः 014a
दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः 014c
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः 015a
क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः 015c
अदृश्यानि महाराज स्थानान्ययुतशो दिवि 016a
ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः 016c
दमेन यानि नृपते गच्छन्ति परमर्षयः 017a
कामयाना महत्स्थानं तस्माद्दानात्परो दमः 017c
अध्यापकः परिक्लेशादक्षयं फलमश्नुते 018a
विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप 018c
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति 019a
गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते 019c
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि 020a
युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते 020c
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् 021a
शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति 021c
शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु 022a
शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह 022c
यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे 023a
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः 023c
बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे 024a
आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः 024c
तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे 025a
वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः 025c
गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे 026a
मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे 026c
साङ्ख्यशूराश्च बहवो योगशूरास्तथापरे 027a
अरण्ये गृहवासे च शूराश्चातिथिपूजने 027c
सर्वे यान्ति पराल्ँलोकान्स्वकर्मफलनिर्जितान् 027e
धारणं सर्ववेदानां सर्वतीर्थावगाहनम् 028a
सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् 028c
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 029a
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते 029c
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते 030a
सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् 030c
सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा 031a
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत् 031c
मुनयः सत्यनिरता मुनयः सत्यविक्रमाः 032a
मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते 032c
सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ 032e
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया 033a
असंशयं विनीतात्मा सर्वः स्वर्गे महीयते 033c
ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप 034a
आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह 034c
न तस्य किञ्चिदप्राप्यमिति विद्धि जनाधिप 034e
बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत 035a
सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् 035c
ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् 036a
ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते 036c
प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु 037a
बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः 037c
तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते 037e
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु 038a
शुश्रूषते यः पितरं न चासूयेत्कथञ्चन 038c
मातरं वानहंवादी गुरुमाचार्यमेव च 038e
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम् 039a
न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् 039c