इन्द्र उवाच 001
जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात् 001a
एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् 001c
ब्रह्मोवाच 002
भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते 002a
दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् 002c
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः 003a
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः 003c
घातकः खादको वापि तथा यश्चानुमन्यते 004a
यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति 004c
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके 005a
विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो 005c
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति 006a
यावद्दाने फलं तस्यास्तावन्निरयमृच्छति 006c
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते 007a
सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम् 007c
गोप्रदानं तारयते सप्त पूर्वांस्तथा परान् 008a
सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते 008c
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा 009a
सुवर्णं पावनं शक्र पावनानां परं स्मृतम् 009c
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो 010a
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते 010c
भीष्म उवाच 011
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ 011a
इन्द्रो दशरथायाह रामायाह पिता तथा 011c
राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने 012a
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो 012c
पारम्पर्यागतं चेदमृषयः संशितव्रताः 013a
दुर्धरं धारयामासू राजानश्चैव धार्मिकाः 013c
उपाध्यायेन गदितं मम चेदं युधिष्ठिर 013e
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि 014a
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे 014c
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा 015a
इति ब्रह्मा स भगवानुवाच परमेश्वरः 015c