ब्रह्मोवाच 001
योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान् 001a
नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो 001c
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि 002a
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः 002c
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा 003a
सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः 003c
शरीरन्यासमोक्षेण मनसा निर्मलेन च 004a
स्वप्नभूतांश्च ताल्ँलोकान्पश्यन्तीहापि सुव्रताः 004c
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः 005a
न तत्र क्रमते कालो न जरा न च पापकम् 005c
तथान्यन्नाशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः 005e
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव 006a
तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् 006c
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते 006e
वाप्यः सरांसि सरितो विविधानि वनानि च 007a
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन 007c
मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते 008a
ईदृशान्विद्धि ताल्ँलोकान्नास्ति लोकस्ततोऽधिकः 008c
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः 009a
अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः 009c
यः सर्वमांसानि न भक्षयीत पुमान्सदा यावदन्ताय युक्तः 010a
मातापित्रोरर्चिता सत्ययुक्तः शुश्रूषिता ब्राह्मणानामनिन्द्यः 010c
अक्रोधनो गोषु तथा द्विजेषु धर्मे रतो गुरुशुश्रूषकश्च 011a
यावज्जीवं सत्यवृत्ते रतश्च दाने रतो यः क्षमी चापराधे 011c
मृदुर्दान्तो देवपरायणश्च सर्वातिथिश्चापि तथा दयावान् 012a
ईदृग्गुणो मानवः सम्प्रयाति लोकं गवां शाश्वतं चाव्ययं च 012c
न पारदारी पश्यति लोकमेनं न वै गुरुघ्नो न मृषाप्रलापी 013a
सदापवादी ब्राह्मणः शान्तवेदो दोषैरन्यैर्यश्च युक्तो दुरात्मा 013c
न मित्रध्रुङ्नैकृतिकः कृतघ्नः शठोऽनृजुर्धर्मविद्वेषकश्च 014a
न ब्रह्महा मनसापि प्रपश्येद्गवां लोकं पुण्यकृतां निवासम् 014c
एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर 015a
गोप्रदानरतानां तु फलं शृणु शतक्रतो 015c
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति 016a
धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् 016c
यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति 017a
स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते 017c
दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः 018a
प्रदत्तास्ताः प्रदातॄणां सम्भवन्त्यक्षया ध्रुवाः 018c
प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा 019a
तस्यापीहाक्षयाल्ँलोकान्ध्रुवान्विद्धि शचीपते 019c
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः 020a
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः 020c
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते 021a
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः 021c
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु 022a
गोसहस्रेण समिता तस्य धेनुर्भवत्युत 022c
क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु 023a
तस्यापि शततुल्या गौर्भवतीति विनिश्चयः 023c
वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् 024a
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् 024c
एतच्चैवं योऽनुतिष्ठेत युक्तः सत्येन युक्तो गुरुशुश्रूषया च 025a
दान्तः क्षान्तो देवतार्ची प्रशान्तः शुचिर्बुद्धो धर्मशीलोऽनहंवाक् 025c
महत्फलं प्राप्नुते स द्विजाय दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् 026a
नित्यं दद्यादेकभक्तः सदा च सत्ये स्थितो गुरुशुश्रूषिता च 026c
वेदाध्यायी गोषु यो भक्तिमांश्च नित्यं दृष्ट्वा योऽभिनन्देत गाश्च 027a
आ जातितो यश्च गवां नमेत इदं फलं शक्र निबोध तस्य 027c
यत्स्यादिष्ट्वा राजसूये फलं तु यत्स्यादिष्ट्वा बहुना काञ्चनेन 028a
एतत्तुल्यं फलमस्याहुरग्र्यं सर्वे सन्तस्त्वृषयो ये च सिद्धाः 028c
योऽग्रं भक्तान्किञ्चिदप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादी 029a
शान्तो बुद्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयात्पुण्यशीलः 029c
य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत् 030a
दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः 030c
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति 031a
यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो 031c
तावच्छतानां स गवां फलमाप्नोति शाश्वतम् 031e
ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु 032a
पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् 032c
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः 032e
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति 033a
यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते 033c
लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः 033e
सङ्ग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति 034a
आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक 034c
अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः 035a
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते 035c
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च 036a
कालज्ञानं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् 036c
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं वैतानस्थं पापभीरुं कृतज्ञम् 037a
गोषु क्षान्तं नातितीक्ष्णं शरण्यं वृत्तिग्लानं तादृशं पात्रमाहुः 037c
वृत्तिग्लाने सीदति चातिमात्रं कृष्यर्थं वा होमहेतोः प्रसूत्याम् 038a
गुर्वर्थं वा बालसंवृद्धये वा धेनुं दद्याद्देशकाले विशिष्टे 038c
अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीता निर्जिताश्चौकजाश्च 039a
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः 039c
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः 040a
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा 040c
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः 041a
वत्सैः पुष्टैः क्षीरपैः सुप्रचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् 041c
दत्त्वा धेनुं सुव्रतां साधुवत्सां कल्याणवृत्तामपलायिनीं च 042a
यावन्ति लोमानि भवन्ति तस्यास्तावन्ति वर्षाणि वसत्यमुत्र 042c
तथानड्वाहं ब्राह्मणायाथ धुर्यं दत्त्वा युवानं बलिनं विनीतम् 043a
हलस्य वोढारमनन्तवीर्यं प्राप्नोति लोकान्दशधेनुदस्य 043c
कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक 044a
क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु 044c
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् 044e
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते 045a
लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते 045c
तत्सर्वं समवाप्नोति कर्मणा तेन मानवः 046a
गोभिश्च समनुज्ञातः सर्वत्र स महीयते 046c
यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति 047a
तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः 047c
अकामं तेन वस्तव्यं मुदितेन शतक्रतो 048a
मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति 048c