युधिष्ठिर उवाच 001
उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति 001a
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो 001c
नृगेण च यथा दुःखमनुभूतं महात्मना 002a
एकापराधादज्ञानात्पितामह महामते 002c
द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः 003a
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया 003c
किं त्वस्ति मम सन्देहो गवां लोकं प्रति प्रभो 004a
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत 004c
भीष्म उवाच 005
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 005a
यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः 005c
शक्र उवाच 006
स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा 006a
गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे 006c
कीदृशा भगवल्ँलोका गवां तद्ब्रूहि मेऽनघ 007a
यानावसन्ति दातार एतदिच्छामि वेदितुम् 007c
कीदृशाः किम्फलाः कः स्वित्परमस्तत्र वै गुणः 008a
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः 008c
कियत्कालं प्रदानस्य दाता च फलमश्नुते 009a
कथं बहुविधं दानं स्यादल्पमपि वा कथम् 009c
बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम् 010a
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे 010c
कथं च बहुदाता स्यादल्पदात्रा समः प्रभो 011a
अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर 011c
कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते 012a
एतत्तथ्येन भगवन्मम शंसितुमर्हसि 012c