युधिष्ठिर उवाच 001
दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ 001a
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः 002c
ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् 003a
त्वं मामुपचरस्वेति नाचिकेतमभाषत 003c
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् 003e
उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च 004a
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् 004c
विस्मृतं मे तदादाय नदीतीरादिहाव्रज 004e
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् 005a
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः 005c
क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा 006a
यमं पश्येति तं पुत्रमशपत्स महातपाः 006c
तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः 007a
प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि 007c
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः 008a
किं मया कृतमित्युक्त्वा निपपात महीतले 008c
तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः 009a
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी 009c
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह 010a
प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् 010c
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः 011a
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् 011c
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा 012a
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः 012c
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना 013a
अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत् 013c
कुर्वन्भवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभावाम् 014a
वैवस्वतीं प्राप्य सभामपश्यं सहस्रशो योजनहैमभौमाम् 014c
दृष्ट्वैव मामभिमुखमापतन्तं गृहं निवेद्यासनमादिदेश 015a
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां सः 015c
ततस्त्वहं तं शनकैरवोचं वृतं सदस्यैरभिपूज्यमानम् 016a
प्राप्तोऽस्मि ते विषयं धर्मराज लोकानर्हे यान्स्म तान्मे विधत्स्व 016c
यमोऽब्रवीन्मां न मृतोऽसि सौम्य यमं पश्येत्याह तु त्वां तपस्वी 017a
पिता प्रदीप्ताग्निसमानतेजा न तच्छक्यमनृतं विप्र कर्तुम् 017c
दृष्टस्तेऽहं प्रतिगच्छस्व तात शोचत्यसौ तव देहस्य कर्ता 018a
ददामि किं चापि मनःप्रणीतं प्रियातिथे तव कामान्वृणीष्व 018c
तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम् 019a
इच्छाम्यहं पुण्यकृतां समृद्धाल्ँलोकान्द्रष्टुं यदि तेऽहं वरार्हः 019c
यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमन्तम् 020a
सन्दर्शयामास तदा स्म लोकान्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र 020c
अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् 021a
नानासंस्थानरूपाणि सर्वरत्नमयानि च 021c
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 022a
अनेकशतभौमानि सान्तर्जलवनानि च 022c
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च 023a
तरुणादित्यवर्णानि स्थावराणि चराणि च 023c
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च 024a
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् 024c
नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः 025a
घोषवन्ति च यानानि युक्तान्येव सहस्रशः 025c
क्षीरस्रवा वै सरितो गिरींश्च सर्पिस्तथा विमलं चापि तोयम् 026a
वैवस्वतस्यानुमतांश्च देशानदृष्टपूर्वान्सुबहूनपश्यम् 026c
सर्वं दृष्ट्वा तदहं धर्मराजमवोचं वै प्रभविष्णुं पुराणम् 027a
क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः 027c
यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता ये दातारः साधवो गोरसानाम् 028a
अन्ये लोकाः शाश्वता वीतशोकाः समाकीर्णा गोप्रदाने रतानाम् 028c
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च 029a
ज्ञात्वा देया विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् 029c
स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी वैतानस्थो ब्राह्मणः पात्रमासाम् 030a
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः 030c
तिस्रो रात्रीरद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः 031a
वत्सैः प्रीताः सुप्रजाः सोपचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् 031c
दत्त्वा धेनुं सुव्रतां कांस्यदोहां कल्याणवत्सामपलायिनीं च 032a
यावन्ति लोमानि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम् 032c
तथानड्वाहं ब्राह्मणाय प्रदाय दान्तं धुर्यं बलवन्तं युवानम् 033a
कुलानुजीवं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान्सम्मितान्धेनुदस्य 033c
गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः 034a
वृत्तिग्लाने सम्भ्रमे वा महार्थे कृष्यर्थे वा होमहेतोः प्रसूत्याम् 034c
गुर्वर्थे वा बालपुष्ट्याभिषङ्गाद्गावो दातुं देशकालोऽविशिष्टः 035a
अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीता निर्जिताश्चौदकाश्च 035c
नाचिकेत उवाच 036
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम् 036a
अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति 036c
ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम् 037a
गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः 037c
अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः 038a
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव 038c
घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः 039a
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते 039c
तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः 040a
स कामप्रवहां शीतां नदीमेतामुपाश्नुते 040c
एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् 041a
दृष्ट्वा च परमं हर्षमवापमहमच्युत 041c
निवेदये चापि प्रियं भवत्सु क्रतुर्महानल्पधनप्रचारः 042a
प्राप्तो मया तात स मत्प्रसूतः प्रपत्स्यते वेदविधिप्रवृत्तः 042c
शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो मे 043a
दानव्युष्टिं तत्र दृष्ट्वा महार्थां निःसन्दिग्धं दानधर्मांश्चरिष्ये 043c
इदं च मामब्रवीद्धर्मराजः पुनः पुनः सम्प्रहृष्टो द्विजर्षे 044a
दानेन तात प्रयतोऽभूः सदैव विशेषतो गोप्रदानं च कुर्याः 044c
शुद्धो ह्यर्थो नावमन्यः स्वधर्मात्पात्रे देयं देशकालोपपन्ने 045a
तस्माद्गावस्ते नित्यमेव प्रदेया मा भूच्च ते संशयः कश्चिदत्र 045c
एताः पुरा अददन्नित्यमेव शान्तात्मानो दानपथे निविष्टाः 046a
तपांस्युग्राण्यप्रतिशङ्कमानास्ते वै दानं प्रददुश्चापि शक्त्या 046c
काले शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानः श्रद्धिनः पुण्यशीलाः 047a
दत्त्वा तप्त्वा लोकममुं प्रपन्ना देदीप्यन्ते पुण्यशीलाश्च नाके 047c
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्तं प्रापणीयं परीक्ष्य 048a
काम्याष्टम्यां वर्तितव्यं दशाहं रसैर्गवां शकृता प्रस्नवैर्वा 048c
वेदव्रती स्याद्वृषभप्रदाता वेदावाप्तिर्गोयुगस्य प्रदाने 049a
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने पापोत्सर्गः कपिलायाः प्रदाने 049c
गामप्येकां कपिलां सम्प्रदाय न्यायोपेतां कल्मषाद्विप्रमुच्येत् 050a
गवां रसात्परमं नास्ति किञ्चिद्गवां दानं सुमहत्तद्वदन्ति 050c
गावो लोकान्धारयन्ति क्षरन्त्यो गावश्चान्नं सञ्जनयन्ति लोके 051a
यस्तज्जानन्न गवां हार्दमेति स वै गन्ता निरयं पापचेताः 051c
यत्ते दातुं गोसहस्रं शतं वा शतार्धं वा दश वा साधुवत्साः 052a
अप्येकां वा साधवे ब्राह्मणाय सास्यामुष्मिन्पुण्यतीर्था नदी वै 052c
प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्याः सूर्यपादैः पृथिव्याम् 053a
शब्दश्चैकः सन्ततिश्चोपभोगस्तस्माद्गोदः सूर्य इवाभिभाति 053c
गुरुं शिष्यो वरयेद्गोप्रदाने स वै वक्ता नियतं स्वर्गदाता 054a
विधिज्ञानां सुमहानेष धर्मो विधिं ह्याद्यं विधयः संश्रयन्ति 054c
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्त्वा प्रापयेथाः परीक्ष्य 055a
त्वय्याशंसन्त्यमरा मानवाश्च वयं चापि प्रसृते पुण्यशीलाः 055c
इत्युक्तोऽहं धर्मराज्ञा महर्षे धर्मात्मानं शिरसाभिप्रणम्य 056a
अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम् 056c