भीष्म उवाच 001
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने 001a
नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह 001c
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः 002a
अदृश्यत महाकूपस्तृणवीरुत्समावृतः 002c
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः 003a
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते 003c
ददृशुस्ते महाकायं कृकलासमवस्थितम् 004a
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः 004c
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् 005a
नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् 005c
खमावृत्योदपानस्य कृकलासः स्थितो महान् 006a
तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् 006c
स वासुदेवेन समुद्धृतश्च पृष्टश्च कामान्निजगाद राजा 007a
नृगस्तदात्मानमथो न्यवेदयत्पुरातनं यज्ञसहस्रयाजिनम् 007c
तथा ब्रुवाणं तु तमाह माधवः शुभं त्वया कर्म कृतं न पापकम् 008a
कथं भवान्दुर्गतिमीदृशीं गतो नरेन्द्र तद्ब्रूहि किमेतदीदृशम् 008c
शतं सहस्राणि शतं गवां पुनः पुनः शतान्यष्ट शतायुतानि 009a
त्वया पुरा दत्तमितीह शुश्रुम नृप द्विजेभ्यः क्व नु तद्गतं तव 009c
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः 010a
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने 010c
गवां सहस्रे सङ्ख्याता तदा सा पशुपैर्मम 011a
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता 011c
अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः 012a
ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् 012c
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ 013a
भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः 013c
शतेन शतसङ्ख्येन गवां विनिमयेन वै 014a
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् 014c
देशकालोपसम्पन्ना दोग्ध्री क्षान्तातिवत्सला 015a
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने 015c
कृशं च भरते या गौर्मम पुत्रमपस्तनम् 016a
न सा शक्या मया हातुमित्युक्त्वा स जगाम ह 016c
ततस्तमपरं विप्रं याचे विनिमयेन वै 017a
गवां शतसहस्रं वै तत्कृते गृह्यतामिति 017c
ब्राह्मण उवाच 018
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे 018a
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन 018c
रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा 019a
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः 019c
एतस्मिन्नेव काले तु चोदितः कालधर्मणा 020a
पितृलोकमहं प्राप्य धर्मराजमुपागमम् 020c
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् 021a
नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः 021c
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया 022a
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि 022c
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव 023a
ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः 023c
पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो 024a
धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले 024c
अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः 025a
वासुदेवः समुद्धर्ता भविता ते जनार्दनः 025c
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते 026a
प्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा 026c
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह 027a
तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः 027c
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् 028a
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै 028c
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् 029a
विमानं दिव्यमास्थाय ययौ दिवमरिन्दम 029c
ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम 030a
वासुदेव इमं श्लोकं जगाद कुरुनन्दन 030c
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता 031a
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव 031c
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते 032a
विमुक्तं नरकात्पश्य नृगं साधुसमागमात् 032c
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः 033a
अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर 033c