युधिष्ठिर उवाच 001
भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् 001a
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः 001c
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा 002a
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति 002c
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः 003a
वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि 003c
भीष्म उवाच 004
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च 004a
सर्वकामफलानीह गावः पृथ्वी सरस्वती 004c
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् 005a
पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते 005c
तथैव गाः प्रशंसन्ति न च देयं ततः परम् 006a
सन्निकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर 006c
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः 006e
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः 007a
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि 007c
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् 008a
पूर्वमेवाक्षरं नान्यदभिधेयं कथञ्चन 008c
प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः 009a
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् 009c
पितृसद्मानि सततं देवतायतनानि च 010a
पूयन्ते शकृता यासां पूतं किमधिकं ततः 010c
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः 011a
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् 011c
स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति 012a
नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति 012c
युधिष्ठिर उवाच 013
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् 013a
कीदृशाय प्रदातव्या न देयाः कीदृशाय च 013c
भीष्म उवाच 014
असद्वृत्ताय पापाय लुब्धायानृतवादिने 014a
हव्यकव्यव्यपेताय न देया गौः कथञ्चन 014c
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये 015a
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् 015c
यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् 016a
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः 016c
यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् 017a
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः 017c
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः 018a
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः 018c
वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य 019a
शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च 019c
यः क्षुद्भयाद्वै न विकर्म कुर्यान्मृदुर्दान्तश्चातिथेयश्च नित्यम् 020a
वृत्तिं विप्रायातिसृजेत तस्मै यस्तुल्यशीलश्च सपुत्रदारः 020c
शुभे पात्रे ये गुणा गोप्रदाने तावान्दोषो ब्राह्मणस्वापहारे 021a
सर्वावस्थं ब्राह्मणस्वापहारो दाराश्चैषां दूरतो वर्जनीयाः 021c