युधिष्ठिर उवाच 001
तिलानां कीदृशं दानमथ दीपस्य चैव ह 001a
अन्नानां वाससां चैव भूय एव ब्रवीहि मे 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर 002c
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह 003a
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः 003c
पर्णशालेति विख्यातो रमणीयो नराधिप 004a
विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा 004c
अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम् 005a
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् 005c
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय 006a
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् 006c
शमे निविष्टं विद्वांसमध्यापकमनादृतम् 007a
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः 007c
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना 008a
अपत्येषु तथा वृत्ते समस्तेनैव धीमता 008c
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे 008e
स गत्वा प्रतिकूलं तच्चकार यमशासनम् 009a
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः 009c
तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् 010a
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति 010c
एवमुक्ते तु वचने धर्मराजेन स द्विजः 011a
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै 011c
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत 011e
यम उवाच 012
नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन 012a
यो हि धर्मं चरति वै तं तु जानामि केवलम् 012c
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते 013a
ब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत 013c
ब्राह्मण उवाच 014
यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे 014a
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम 014c
यम उवाच 015
शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् 015a
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् 015c
तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ 016a
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत 016c
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् 017a
तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा 017c
तिला भक्षयितव्याश्च सदा त्वालभनं च तैः 018a
कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे 018c
तथापः सर्वदा देयाः पेयाश्चैव न संशयः 019a
पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् 019c
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम 020a
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् 020c
प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम 021a
भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः 021c
इत्युक्ते स तदा तेन यमदूतेन वै गृहान् 022a
नीतश्चकार च तथा सर्वं तद्यमशासनम् 022c
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा 023a
ययौ स धर्मराजाय न्यवेदयत चापि तम् 023c
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् 024a
कृत्वा च संविदं तेन विससर्ज यथागतम् 024c
तस्यापि च यमः सर्वमुपदेशं चकार ह 025a
प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् 025c
तथा प्रशंसते दीपान्यमः पितृहितेप्सया 026a
तस्माद्दीपप्रदो नित्यं सन्तारयति वै पितॄन् 026c
दातव्याः सततं दीपास्तस्माद्भरतसत्तम 027a
देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो 027c
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप 028a
तानि विक्रीय यजते ब्राह्मणो ह्यभयङ्करः 028c
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै 029a
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च 029c
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् 030a
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् 030c
वाससां तु प्रदानेन स्वदारनिरतो नरः 031a
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम 031c
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः 032a
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् 032c
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च 033a
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते 033c