युधिष्ठिर उवाच 001
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् 001a
अन्नं तु ते विशेषेण प्रशस्तमिह भारत 001c
पानीयदानं परमं कथं चेह महाफलम् 002a
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह 002c
भीष्म उवाच 003
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ 003a
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम 003c
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ 003e
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते नरः 004a
न तस्मात्परमं दानं किञ्चिदस्तीति मे मतिः 004c
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः 005a
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते 005c
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा 006a
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः 006c
सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम् 007a
यतश्चैतद्यथा चैतद्देवसत्रे महामते 007c
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत 008a
प्राणदानाद्धि परमं न दानमिह विद्यते 008c
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः 009a
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा 009c
तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते 010a
गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् 010c
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम 011a
नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते 011c
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः 012a
अमृतं च सुधा चैव स्वाहा चैव वषट्तथा 012c
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः 013a
यतः प्राणभृतां प्राणाः सम्भवन्ति विशां पते 013c
देवानाममृतं चान्नं नागानां च सुधा तथा 014a
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः 014c
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः 015a
तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते 015c
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् 016a
तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः 016c
धन्यं यशस्यमायुष्यं जलदानं विशां पते 017a
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः 017c
सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम् 018a
प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते 018c
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते 019a
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः 019c