युधिष्ठिर उवाच 001
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ 001a
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः 002a
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि 002c
स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर 002e
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते 003a
उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् 003c
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि 003e
युधिष्ठिर उवाच 004
यत्फलं तिलदाने च भूमिदाने च कीर्तितम् 004a
गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव 004c
भीष्म उवाच 005
शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम् 005a
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम 005c
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयम्भुवा 006a
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते 006c
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति 007a
सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति 007c
सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् 008a
न चाकामेन दातव्यं तिलश्राद्धं कथञ्चन 008c
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः 009a
ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो 009c
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः 010a
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते 010c
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा 011a
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः 011c
तिलहोमपरा विप्राः सर्वे संयतमैथुनाः 012a
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः 012c
सर्वेषामेव दानानां तिलदानं परं स्मृतम् 013a
अक्षयं सर्वदानानां तिलदानमिहोच्यते 013c
उत्पन्ने च पुरा हव्ये कुशिकर्षिः परन्तप 014a
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् 014c
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् 015a
विधानं येन विधिना तिलानामिह शस्यते 015c
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् 016a
समागमं महाराज ब्रह्मणा वै स्वयम्भुवा 016c
देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः 017a
शुभं देशमयाचन्त यजेम इति पार्थिव 017c
देवा ऊचुः 018
भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च 018a
यजेमहि महाभाग यज्ञं भवदनुज्ञया 018c
नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते 018e
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च 019a
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि 019c
ब्रह्मोवाच 020
ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः 020a
यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः 020c
देवा ऊचुः 021
भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः 021a
इमं तु देशं मुनयः पर्युपासन्त नित्यदा 021c
भीष्म उवाच 022
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः 022a
असितो देवलश्चैव देवयज्ञमुपागमन् 022c
ततो देवा महात्मान ईजिरे यज्ञमच्युत 023a
तथा समापयामासुर्यथाकालं सुरर्षभाः 023c
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे 024a
षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे 024c
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् 025a
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते 025c
शीतवातातपसहां गृहभूमिं सुसंस्कृताम् 026a
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते 026c
मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव 027a
प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते 027c
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः 028a
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते 028c
तथा गवार्थे शरणं शीतवर्षसहं महत् 029a
आसप्तमं तारयति कुलं भरतसत्तम 029c
क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात् 030a
रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् 030c
न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन 031a
न श्मशानपरीतां च न च पापनिषेविताम् 031c
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः 032a
तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते 032c
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः 033a
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः 033c
अटवीपर्वताश्चैव नदीतीर्थानि यानि च 034a
सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः 034c
इत्येतद्भूमिदानस्य फलमुक्तं विशां पते 035a
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ 035c
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च 036a
तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः 036c
ब्रह्मलोके वसन्त्येताः सोमेन सह भारत 037a
आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् 037c
पयसा हविषा दध्ना शकृताप्यथ चर्मणा 038a
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत 038c
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते 039a
न वर्षं विषमं वापि दुःखमासां भवत्युत 039c
ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम् 040a
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः 040c
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः 041a
ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता 041c
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः 042a
ता इमा विप्रमुख्येभ्यो यो ददाति महीपते 042c
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव 042e
गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति 043a
सर्वत्र विजयं चापि लभते मनुजाधिप 043c
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः 044a
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति 044c
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः 045a
तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति 045c
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् 046a
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते 046c
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ 047a
तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति 047c
गावः शरण्या भूतानामिति वेदविदो विदुः 048a
तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति 048c
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके 049a
गोजीविने न दातव्या तथा गौः पुरुषर्षभ 049c
ददाति तादृशानां वै नरो गाः पापकर्मणाम् 050a
अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः 050c
न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा 051a
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै 051c
दशगोसहस्रदः सम्यक्शक्रेण सह मोदते 052a
अक्षयाल्ँलभते लोकान्नरः शतसहस्रदः 052c
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् 053a
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत 053c
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते 054a
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः 054c
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप 055a
स्वायम्भुवं महाभागं स पश्यति नराधिप 055c
न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत 056a
प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो 056c
अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता 057a
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा 057c
सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः 058a
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः 058c
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् 059a
यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः 059c
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत 060a
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते 060c
अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः 061a
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ 061c
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् 062a
पापं तरति चैवेह दुष्कृतं चापकर्षति 062c
इत्येतदन्नदानस्य तिलदानस्य चैव ह 063a
भूमिदानस्य च फलं गोदानस्य च कीर्तितम् 063c