भीष्म उवाच 001
सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् 001a
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् 001c
पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् 002a
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् 002c
पानीयदानं परमं दानानां मनुरब्रवीत् 003a
तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् 003c
अर्धं पापस्य हरति पुरुषस्येह कर्मणः 004a
कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः 004c
सर्वं तारयते वंशं यस्य खाते जलाशये 005a
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा 005c
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् 006a
स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते 006c
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च 007a
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा 007c
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् 008a
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् 008c
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा 009a
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् 009c
घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति 010a
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ 010c
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति 011a
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन 011c
पिपासया न म्रियते सोपच्छन्दश्च दृश्यते 012a
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति 012c
प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः 013a
उपस्पर्शनषड्भागं लभते पुरुषः सदा 013c
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति 014a
प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः 014c
सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च 015a
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः 015c
भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः 016a
न तं त्यजन्ते पशवः सङ्ग्रामे च जयत्यपि 016c
पुत्राञ्छ्रियं च लभते यश्छत्रं सम्प्रयच्छति 017a
चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते 017c
निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति 018a
नास्य कश्चिन्मनोदाहः कदाचिदपि जायते 018c
कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते 018e
प्रदानं सर्वदानानां शकटस्य विशिष्यते 019a
एवमाह महाभागः शाण्डिल्यो भगवानृषिः 019c