युधिष्ठिर उवाच 001
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः 001a
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
देवक्याश्चैव संवादं देवर्षेर्नारदस्य च 002c
द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम् 003a
पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी 003c
तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्तदा 004a
आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते 004c
नारद उवाच 005
कृत्तिकासु महाभागे पायसेन ससर्पिषा 005a
सन्तर्प्य ब्राह्मणान्साधूल्ँलोकानाप्नोत्यनुत्तमान् 005c
रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा 006a
पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये 006c
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते 007a
गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् 007c
आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः 008a
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् 008c
अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने 009a
यशस्वी रूपसम्पन्नो बह्वन्ने जायते कुले 009c
पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च 010a
अनालोकेषु लोकेषु सोमवत्स विराजते 010c
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति 011a
स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति 011c
मघासु तिलपूर्णानि वर्धमानानि मानवः 012a
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते 012c
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः 013a
भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति 013c
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् 014a
उत्तराविषये दत्त्वा स्वर्गलोके महीयते 014c
यद्यत्प्रदीयते दानमुत्तराविषये नरैः 015a
महाफलमनन्तं च भवतीति विनिश्चयः 015c
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः 016a
प्राप्नोति परमाल्ँलोकान्पुण्यकामसमन्वितान् 016c
चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत 017a
चरत्यप्सरसां लोके रमते नन्दने तथा 017c
स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः 018a
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः 018c
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् 019a
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् 019c
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते 020a
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति 020c
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति 021a
नरकादींश्च सङ्क्लेशान्नाप्नोतीति विनिश्चयः 021c
अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः 022a
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते 022c
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् 023a
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति 023c
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः 024a
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति 024c
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः 025a
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे 025c
प्रदाय जायते प्रेत्य कुले सुबहुगोकुले 025e
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् 026a
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् 026c
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् 027a
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते 027c
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च 028a
श्वेतेन याति यानेन सर्वलोकानसंवृतान् 028c
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः 029a
वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते 029c
गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान् 030a
प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् 030c
पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु 031a
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् 031c
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति 032a
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते 032c
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति 033a
सा प्रेत्य कामानादाय दातारमुपतिष्ठति 033c
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः 034a
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले 034c
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै 035a
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा 035c
भीष्म उवाच 036
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः 036a
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् 036c