युधिष्ठिर उवाच 001
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः 001a
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम 001c
केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत 002a
शंस मे तन्महाबाहो फलं पुण्यकृतं महत् 002c
दत्तं किं फलवद्राजन्निह लोके परत्र च 003a
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद 003c
भीष्म उवाच 004
इममर्थं पुरा पृष्टो नारदो देवदर्शनः 004a
यदुक्तवानसौ तन्मे गदतः शृणु भारत 004c
नारद उवाच 005
अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा 005a
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् 005c
अन्नेन सदृशं दानं न भूतं न भविष्यति 006a
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः 006c
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः 007a
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो 007c
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च 008a
अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः 008c
कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने 009a
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता 009c
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने 010a
निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः 010c
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् 011a
अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् 011c
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः 012a
अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् 012c
नावमन्येदभिगतं न प्रणुद्यात्कथञ्चन 013a
अपि श्वपाके शुनि वा न दानं विप्रणश्यति 013c
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते 014a
श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् 014c
पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप 015a
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् 015c
कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने 016a
ब्राह्मणाय विशेषेण न स पापेन युज्यते 016c
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् 017a
अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते 017c
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा 018a
भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः 018c
अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः 019a
भवन्तीहाथ वामुत्र नृपते नात्र संशयः 019c
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः 020a
अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति 020c
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते 021a
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् 021c
ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् 022a
विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा 022c
सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते 023a
महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत 023c
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् 024a
मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः 024c
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् 025a
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि 025c
प्राणवांश्चापि भवति रूपवांश्च तथा नृप 026a
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः 026c
अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि 027a
प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते 027c
ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् 028a
उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् 028c
प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत 029a
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत 029c
अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत 030a
धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः 030c
अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः 031a
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् 031c
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः 032a
बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः 032c
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा 033a
न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते 033c
अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम् 034a
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः 034c
अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम् 035a
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव 035c
मेघेष्वम्भः सन्निधत्ते प्राणानां पवनः शिवः 036a
तच्च मेघगतं वारि शक्रो वर्षति भारत 036c
आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः 037a
वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः 037c
तद्यदा मेघतो वारि पतितं भवति क्षितौ 038a
तदा वसुमती देवी स्निग्धा भवति भारत 038c
ततः सस्यानि रोहन्ति येन वर्तयते जगत् 039a
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः 039c
सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते 040a
अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह 040c
एवमन्नं च सूर्यश्च पवनः शुक्रमेव च 041a
एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे 041c
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ 042a
गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने 042c
भीष्म उवाच 043
नारदेनैवमुक्तोऽहमदामन्नं सदा नृप 043a
अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः 043c
दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो 044a
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि 044c
अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप 045a
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् 045c
नानासंस्थानरूपाणि नानास्तम्भान्वितानि च 045e
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 046a
तरुणादित्यवर्णानि स्थावराणि चराणि च 046c
अनेकशतभौमानि सान्तर्जलवनानि च 047a
वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च 047c
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः 048a
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः 048c
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः 049a
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च 049c
क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः 050a
प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः 050c
तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव 050e
एते लोकाः पुण्यकृतामन्नदानां महात्मनाम् 051a
तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि 051c