युधिष्ठिर उवाच 001
इदं देयमिदं देयमितीयं श्रुतिचोदना 001a
बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम् 001c
भीष्म उवाच 002
अति दानानि सर्वाणि पृथिवीदानमुच्यते 002a
अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान् 002c
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा 003a
भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः 003c
यावद्भूमेरायुरिह तावद्भूमिद एधते 004a
न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर 004c
अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् 005a
भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः 005c
स्वकर्मैवोपजीवन्ति नरा इह परत्र च 006a
भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम् 006c
य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः 007a
पुनर्नरत्वं सम्प्राप्य भवेत्स पृथिवीपतिः 007c
यथा दानं तथा भोग इति धर्मेषु निश्चयः 008a
सङ्ग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम् 008c
इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम् 009a
पुनाति दत्ता पृथिवी दातारमिति शुश्रुम 009c
अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम् 010a
सैव पापं पावयति सैव पापात्प्रमोचयेत् 010c
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः 011a
पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा 011c
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् 012a
दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम् 012c
तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः 012e
नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन 013a
न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत् 013c
ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम् 013e
यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः 014a
भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि 014c
प्रेत्येह च स धर्मात्मा सम्प्राप्नोति महद्यशः 014e
यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि 015a
न तस्य शत्रवो राजन्प्रशासन्ति वसुन्धराम् 015c
यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः 016a
अपि गोचर्ममात्रेण भूमिदानेन पूयते 016c
येऽपि सङ्कीर्णकर्माणो राजानो रौद्रकर्मिणः 017a
तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् 017c
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः 018a
यो यजेदश्वमेधेन दद्याद्वा साधवे महीम् 018c
अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः 019a
अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् 019c
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च 020a
सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत् 020c
तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता 021a
गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् 021c
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः 022a
ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् 022c
यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा 023a
अनुगृह्णाति दातारं तथा सर्वरसैर्मही 023c
मृत्योर्वै किङ्करो दण्डस्तापो वह्नेः सुदारुणः 024a
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् 024c
पितॄंश्च पितृलोकस्थान्देवलोके च देवताः 025a
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् 025c
कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते 026a
भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः 026c
यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत 027a
एवमेव महाभाग भूमिर्भवति भूमिदम् 027c
हलकृष्टां महीं दत्त्वा सबीजां सफलामपि 028a
उदीर्णं वापि शरणं तथा भवति कामदः 028c
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् 029a
नरः प्रतिग्राह्य महीं न याति यमसादनम् 029c
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते 030a
तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते 030c
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः 031a
याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै 031c
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ 032a
अस्मिल्ँलोके परे चैव ततश्चाजनने पुनः 032c
य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः 033a
श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति 033c
कृत्यानामभिशस्तानां दुरिष्टशमनं महत् 034a
प्रायश्चित्तमहं कृत्वा पुनात्युभयतो दश 034c
पुनाति य इदं वेद वेद चाहं तथैव च 035a
प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता 035c
अभिषिच्यैव नृपतिं श्रावयेदिममागमम् 036a
यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् 036c
सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम् 037a
राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् 037c
अथ येषामधर्मज्ञो राजा भवति नास्तिकः 038a
न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च 038c
सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः 039a
योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् 039c
अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः 040a
सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च 040c
तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः 041a
योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः 041c
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् 042a
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् 042c
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः 043a
ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे 043c
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले 044a
तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः 044c
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः 045a
शूलपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् 045c
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च 046a
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः 046c
एषा माता पिता चैव जगतः पृथिवीपते 047a
नानया सदृशं भूतं किञ्चिदस्ति जनाधिप 047c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 048a
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर 048c
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता 049a
मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् 049c
भगवन्केन दानेन स्वर्गतः सुखमेधते 050a
यदक्षयं महार्घं च तद्ब्रूहि वदतां वर 050c
इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः 051a
बृहस्पतिर्महातेजाः प्रत्युवाच शतक्रतुम् 051c
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् 052a
दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते 052c
न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो 053a
विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः 053c
ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः 054a
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् 054c
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः 055a
ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम् 055c
पञ्च पूर्वादिपुरुषाः षट्च ये वसुधां गताः 056a
एकादश ददद्भूमिं परित्रातीह मानवः 056c
रत्नोपकीर्णां वसुधां यो ददाति पुरन्दर 057a
स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते 057c
महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम् 058a
राजाधिराजो भवति तद्धि दानमनुत्तमम् 058c
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति 059a
सर्वभूतानि मन्यन्ते मां ददातीति वासव 059c
सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् 060a
ददाति यः सहस्राक्ष स स्वर्गं याति मानवः 060c
मधुसर्पिःप्रवाहिन्यः पयोदधिवहास्तथा 061a
सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् 061c
भूमिप्रदानान्नृपतिर्मुच्यते राजकिल्बिषात् 062a
न हि भूमिप्रदानेन दानमन्यद्विशिष्यते 062c
ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् 063a
तं जनाः कथयन्तीह यावद्धरति गौरियम् 063c
पुण्यामृद्धरसां भूमिं यो ददाति पुरन्दर 064a
न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः 064c
सर्वथा पार्थिवेनेह सततं भूतिमिच्छता 065a
भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सता 065c
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये 066a
समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः 066c
सागरान्सरितः शैलान्काननानि च सर्वशः 067a
सर्वमेतन्नरः शक्र ददाति वसुधां ददत् 067c
तडागान्युदपानानि स्रोतांसि च सरांसि च 068a
स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् 068c
ओषधीः क्षीरसम्पन्ना नगान्पुष्पफलान्वितान् 069a
काननोपलशैलांश्च ददाति वसुधां ददत् 069c
अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः 070a
न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते 070c
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् 071a
पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति 071c
न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः 072a
स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् 072c
आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् 073a
ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् 073c
ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरन्दर 074a
इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् 074c
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप 075a
ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन 075c
अथाश्रु पतितं तेषां दीनानामवसीदताम् 076a
ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् 076c
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः 077a
तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते 077c
इक्षुभिः सन्ततां भूमिं यवगोधूमसङ्कुलाम् 078a
गोश्ववाहनसम्पूर्णां बाहुवीर्यसमार्जिताम् 078c
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम् 079a
अक्षयाल्ँलभते लोकान्भूमिसत्रं हि तस्य तत् 079c
विधूय कलुषं सर्वं विरजाः सम्मतः सताम् 080a
लोके महीयते सद्भिर्यो ददाति वसुन्धराम् 080c
यथाप्सु पतितः शक्र तैलबिन्दुर्विसर्पति 081a
तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति 081c
ये रणाग्रे महीपालाः शूराः समितिशोभनाः 082a
वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते 082c
नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः 083a
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि 083c
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः 084a
यो ददाति महीं सम्यग्विधिनेह द्विजातये 084c
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः 085a
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् 085c
शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः 086a
भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा 086c
आज्ञा सदाप्रतिहता जयशब्दो भवत्यथ 087a
भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरन्दर 087c
हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाड्वलाः 088a
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् 088c
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः 089a
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः 089c
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् 090a
वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा 090c
य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् 091a
न तस्य रक्षसां भागो नासुराणां भवत्युत 091c
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः 092a
तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतः श्रावयेद्द्विजान् 092c
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ 093a
मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि 093c