युधिष्ठिर उवाच 001
दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम् 001a
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा 001c
एतदिच्छामि विज्ञातुं याथातथ्येन भारत 002a
विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे 002c
अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः 003a
किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह 003c
भीष्म उवाच 004
रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते 004a
तस्य वैतानिकं कर्म दानं चैवेह पावनम् 004c
न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः 005a
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः 005c
अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः 006a
श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् 006c
ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः 007a
मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् 007c
यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति 008a
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः 008c
इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा 009a
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा 009c
प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः 010a
प्रजावांस्तेन भवति यथा जनयिता तथा 010c
यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत 011a
सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः 011c
समृद्धः सम्प्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर 012a
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ 012c
आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत 013a
अश्ववन्ति च यानानि वेश्मानि शयनानि च 013c
एते देया व्युष्टिमन्तो लघूपायाश्च भारत 014a
अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् 014c
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय 015a
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति 015c
एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि 016a
स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि 016c
ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च 017a
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत 017c
पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय 018a
योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत 018c
अरक्षितारं हर्तारं विलोप्तारमदायकम् 019a
तं स्म राजकलिं हन्युः प्रजाः सम्भूय निर्घृणम् 019c
अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः 020a
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः 020c
पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः 021a
चतुर्थं तस्य पापस्य राजा भारत विन्दति 021c
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः 022a
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् 022c
शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः 023a
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत 023c
जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर 024a
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः 024c
कुबेरमिव रक्षांसि शतक्रतुमिवामराः 025a
ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परन्तप 025c