युधिष्ठिर उवाच 001
यौ तु स्यातां चरणेनोपपन्नौ यौ विद्यया सदृशौ जन्मना च 001a
ताभ्यां दानं कतरस्मै विशिष्टमयाचमानाय च याचते च 001c
भीष्म उवाच 002
श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते 002a
अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः 002c
क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः 003a
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् 003c
याच्ञामाहुरनीशस्य अभिहारं च भारत 004a
उद्वेजयति याचन्हि सदा भूतानि दस्युवत् 004c
म्रियते याचमानो वै तमनु म्रियते ददत् 005a
ददत्सञ्जीवयत्येनमात्मानं च युधिष्ठिर 005c
आनृशंस्यं परो धर्मो याचते यत्प्रदीयते 006a
अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रय 006c
यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः 007a
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः 007c
तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि 008a
पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः 008c
तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तप 009a
ददद्बहुविधान्दायानुपच्छन्दानयाचताम् 009c
यदग्निहोत्रे सुहुते सायम्प्रातर्भवेत्फलम् 010a
विद्यावेदव्रतवति तद्दानफलमुच्यते 010c
विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः 011a
गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् 011c
कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः 012a
निमन्त्रयेथाः कौन्तेय कामैश्चान्यैर्द्विजोत्तमान् 012c
अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर 013a
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः 013c
अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् 014a
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः 014c
अन्नानि प्रातःसवने नियता ब्रह्मचारिणः 015a
ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्तु ते 015c
माध्यन्दिनं ते सवनं ददतस्तात वर्तताम् 016a
गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव 016c
तृतीयं सवनं तत्ते वैश्वदेवं युधिष्ठिर 017a
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि 017c
अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः 018a
दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते 018c
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः 019a
विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम् 019c