युधिष्ठिर उवाच 001
यानीमानि बहिर्वेद्यां दानानि परिचक्षते 001a
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव 001c
कौतूहलं हि परमं तत्र मे वर्तते प्रभो 002a
दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे 002c
भीष्म उवाच 003
अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम् 003a
यच्चाभिलषितं दद्यात्तृषितायाभियाचते 003c
दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते 004a
दत्तं दातारमन्वेति यद्दानं भरतर्षभ 004c
हिरण्यदानं गोदानं पृथिवीदानमेव च 005a
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम् 005c
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा 006a
दानानि हि नरं पापान्मोक्षयन्ति न संशयः 006c
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे 007a
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता 007c
प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा 008a
प्रियो भवति भूतानामिह चैव परत्र च 008c
याचमानमभीमानादाशावन्तमकिञ्चनम् 009a
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर 009c
अमित्रमपि चेद्दीनं शरणैषिणमागतम् 010a
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः 010c
कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते 011a
अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः 011c
ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान् 012a
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय 012c
आशिषं ये न देवेषु न मर्त्येषु च कुर्वते 013a
अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः 013c
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत 014a
तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान् 014c
कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः 015a
निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः 015c
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर 016a
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः 016c
विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः 017a
गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः 017c
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च 018a
यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति 018c
यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना 019a
तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना 019c
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः 020a
विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् 020c
निवापो दानसदृशस्तादृशेषु युधिष्ठिर 021a
निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति 021c
य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि 022a
त एव नः पूज्यतमा ये चान्ये प्रियवादिनः 022c
ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे 023a
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम् 023c
ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते 024a
क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे 024c
अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर 025a
ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च 025c
यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ 026a
तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता 026c
नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम् 027a
यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् 027c
को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम् 028a
वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम 028c
यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः 029a
स देवः सा गतिर्नान्या तथास्माकं द्विजातयः 029c
यदि नो ब्राह्मणास्तात सन्त्यजेयुरपूजिताः 030a
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् 030c
अवेदानामकीर्तीनामलोकानामयज्वनाम् 031a
कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम् 031c
अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः 032a
राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह 032c
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः 032e
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् 033a
संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च 033c
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् 034a
आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् 034c
अपरेषां परेषां च परेभ्यश्चैव ये परे 035a
क्षत्रियाणां प्रतपतां तेजसा च बलेन च 035c
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च 035e
न मे पिता प्रियतरो न त्वं तात तथा प्रियः 036a
न मे पितुः पिता राजन्न चात्मा न च जीवितम् 036c
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन 037a
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ 037c
ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन 038a
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः 038c
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् 039a
तत्र मे तात गन्तव्यमह्नाय च चिराय च 039c
सोऽहमेतादृशाल्ँलोकान्दृष्ट्वा भरतसत्तम 040a
यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव 040c