युधिष्ठिर उवाच 001
मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः 001a
हीनां पार्थिवसङ्घातैः श्रीमद्भिः पृथिवीमिमाम् 001c
प्राप्य राज्यानि शतशो महीं जित्वापि भारत 002a
कोटिशः पुरुषान्हत्वा परितप्ये पितामह 002c
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति 003a
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा 003c
वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च 004a
अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः 004c
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत 005a
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते 005c
वैशम्पायन उवाच 006
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः 006a
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत 006c
रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि 007a
या गतिः प्राप्यते येन प्रेत्यभावेषु भारत 007c
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः 008a
आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो 008c
ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च 009a
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ 009c
धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति 010a
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् 010c
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले 011a
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् 011c
पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः 012a
गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः 012c
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् 013a
स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् 013c
नित्यस्नायी भवेद्दक्षः सन्ध्ये तु द्वे जपन्द्विजः 014a
मरुं साधयतो राज्यं नाकपृष्ठमनाशके 014c
स्थण्डिले शयमानानां गृहाणि शयनानि च 015a
चीरवल्कलवासोभिर्वासांस्याभरणानि च 015c
शय्यासनानि यानानि योगयुक्ते तपोधने 016a
अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते 016c
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति 017a
आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् 017c
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् 018a
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते 018c
कीर्तिर्भवति दानेन तथारोग्यमहिंसया 019a
द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् 019c
पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती 020a
अन्नपानप्रदानेन तृप्यते कामभोगतः 020c
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते 021a
देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति 021c
दीपालोकप्रदानेन चक्षुष्मान्भवते नरः 022a
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति 022c
गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला 023a
केशश्मश्रून्धारयतामग्र्या भवति सन्ततिः 023c
उपवासं च दीक्षां च अभिषेकं च पार्थिव 024a
कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते 024c
दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च 025a
ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ 025c
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत 026a
लभते च चिरं स्थानं बलिपुष्पप्रदो नरः 026c
सुवर्णशृङ्गैस्तु विभूषितानां गवां सहस्रस्य नरः प्रदाता 027a
प्राप्नोति पुण्यं दिवि देवलोकमित्येवमाहुर्मुनिदेवसङ्घाः 027c
प्रयच्छते यः कपिलां सचैलां कांस्योपदोहां कनकाग्रशृङ्गीम् 028a
तैस्तैर्गुणैः कामदुघास्य भूत्वा नरं प्रदातारमुपैति सा गौः 028c
यावन्ति लोमानि भवन्ति धेन्वास्तावत्फलं प्राप्नुते गोप्रदाता 029a
पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र 029c
सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणोत्तरीयाम् 030a
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति 030c
स्वकर्मभिर्मानवं सन्निबद्धं तीव्रान्धकारे नरके पतन्तम् 031a
महार्णवे नौरिव वायुयुक्ता दानं गवां तारयते परत्र 031c
यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे 032a
ददाति चान्नं विधिवच्च यश्च स लोकमाप्नोति पुरन्दरस्य 032c
नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय 033a
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः कुरुषूत्तरेषु 033c
धुर्यप्रदानेन गवां तथाश्वैर्लोकानवाप्नोति नरो वसूनाम् 034a
स्वर्गाय चाहुर्हि हिरण्यदानं ततो विशिष्टं कनकप्रदानम् 034c
छत्रप्रदानेन गृहं वरिष्ठं यानं तथोपानहसम्प्रदाने 035a
वस्त्रप्रदानेन फलं सुरूपं गन्धप्रदाने सुरभिर्नरः स्यात् 035c
पुष्पोपगं वाथ फलोपगं वा यः पादपं स्पर्शयते द्विजाय 036a
स स्त्रीसमृद्धं बहुरत्नपूर्णं लभत्ययत्नोपगतं गृहं वै 036c
भक्षान्नपानीयरसप्रदाता सर्वानवाप्नोति रसान्प्रकामम् 037a
प्रतिश्रयाच्छादनसम्प्रदाता प्राप्नोति तानेव न संशयोऽत्र 037c
स्रग्धूपगन्धान्यनुलेपनानि स्नानानि माल्यानि च मानवो यः 038a
दद्याद्द्विजेभ्यः स भवेदरोगस्तथाभिरूपश्च नरेन्द्रलोके 038c
बीजैरशून्यं शयनैरुपेतं दद्याद्गृहं यः पुरुषो द्विजाय 039a
पुण्याभिरामं बहुरत्नपूर्णं लभत्यधिष्ठानवरं स राजन् 039c
सुगन्धचित्रास्तरणोपपन्नं दद्यान्नरो यः शयनं द्विजाय 040a
रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत्सः 040c
पितामहस्यानुचरो वीरशायी भवेन्नरः 041a
नाधिकं विद्यते तस्मादित्याहुः परमर्षयः 041c
वैशम्पायन उवाच 042
तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः 042a
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया 042c
ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ 043a
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः 043c
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी 044a
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् 044c